________________
खरूपेण सत्यमपि सत् प्राणिनां पीडाहेतुर्भवति तदप्यलीकमेव द्रष्टव्यमिति ॥ ९०५ ॥ एतदेव स्पष्टतरमुदा हरणेनोपदर्शयति
जह जो सुहं करेई एगंतेणेव बंधइ सुहं सो।
सपरोभयतब्भावेण परिस्थिभोगेण वहिचारो ॥ ९०६ ॥ यथेत्युदाहरणोपदर्शने । यः परेषां सुखं करोति स एकान्तेनैव बनाति सुख-सुखनिमित्तं कर्मेत्येतद्वचोऽलीक, तथान्यदप्येवंजातीयकं द्रष्टव्यम् । कथं पुनरिदमलीकमिति चेत् आह-स परो इत्यादि' परस्त्रीभोगेन यः खप-16 रलक्षणस्योभयस्य तद्भावः-सुखभावस्तेन व्यभिचारात् , परस्त्रियं हि भुजानः खपरयोर्मदनहुतवहजनितसंतापहारितया सुखहेतुर्भवति, न चासौ सुखनिमित्तं कर्म बनाति, तस्य भवान्तरे नरकादिकुगतिविनिपातभावात्तथैव प्रवचने श्रवणादिति ॥९०६ ॥ तथा
दुक्खकरो चिय एवं नेगंतेणेव बंधई असुहं ।
जह लोयादि करेंतो सपरोभयदुक्खहेऊ वि ॥ ९०७ ॥ यथा सुखकरो नैकान्तेन सुखं बनाति एवं दुःखकरोऽपि नैकान्तेनैवासुखम्-असुखनिमित्तं कर्म बनाति, किंत
CIRCRACRORECARRC-CA
Jain Education
a
l
For Private & Personal Use Only
X
w.jainelibrary.org