________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१७॥
***RARISASSISHASHASIS
एतेन-अनन्तरोदितेन इदमप्यावेद्यते यथा-बुधान्-अवगतयथावस्थितवस्तुतत्त्वान् प्रतीत्य न यजमाना-यागं कुर्वाणा लोके पूज्याः। अथ बुधानाश्रित्य यजमाना मा भूवन् लोके पूज्या इतरानाश्रित्य भविष्यन्तीत्यत आह'अबुहेत्यादि' अबुधानां पूज्याः 'मण्डलकादयोऽपि' मण्डलक:-श्वा, तदुक्तम्-इंदमहकामुओ मंडलो य कविलो य भण्णए सुणओ" इति, आदिशब्दान्मार्जारादिपरिग्रहः । तथाच केचिल्लोके वक्तारो भवन्ति-'नैते श्वानः किंतु लोकानुग्रहकाम्यया कैलासभवनादागत्य गुह्यका इमे महीमण्डलमवतीर्णवन्तस्तत एतेषामवश्यं पूजा कर्त्तव्या', उक्तंच- | "कैलासभवणा एए आगया गुज्झका महीं। चरंति जक्खरूवेण पूयापूया हियाऽहिया ॥१॥” इत्यादि । न चेत्थमबुधानां पूज्या अपि ते न कुत्सिताः, ततः किं तैरिहाबुधैः कार्यमिति कृतं प्रसङ्गेन ।। ८९५॥ तदेवं प्रथमं मूलगुणमाश्रित्याक्षेपपरिहारावभिधाय सांप्रतं द्वितीयं मूलगुणमाश्रित्य तावभिधातुकाम आह
___ अन्ने उ मुसावाओ नियनिंदाकारणं न दोसाय।
जह बंभघातगोऽहं एमादि पभासयन्तस्स ॥ ८९६ ॥ १ इन्द्रमहकामुको मण्डलश्च कपिलश्च भण्यते श्वा । २ कैलासभवनादेते आगता गुह्यका मह्याम् । चरन्ति यक्षरूपेण पूजाऽपूजा हिताऽहिताः ॥
॥३१७॥
Jain Education in
For Private & Personel Use Only
allainelibrary.org