________________
Jain Education Inter
नाणीहिं कुच्छियच्चिय तहेव वेदंतवादीहिं ॥ ८९३ ॥
न च कुत्सिता - जुगुप्सिता ' तई 'त्ति सका हिंसेति यद्भणितं तत्सर्वथा अयुक्तमेव । तुरेवकारार्थः । यस्मात् ज्ञानिभिः - यथावस्थितसकलवस्तुतत्त्ववेदिभिः सा कुत्सितैव - जुगुप्सितैव, तथैव वेदान्तवादिभिरपि ॥ ८९३ ॥ एतदेव भावयति
अंधम्मितमम्मि खलु मज्जामो पसुहिं जे जयामोति ।
मादि बहुविहं किं भणितं वेदंतवादीहिं ॥ ८९४ ॥
• यदि हिंसा न कुत्सिता ततः अन्धे तमसि खल्विति गाथापूरणे मज्जामो वयं ये पशुभिर्यजामहे इत्येवमादिकं किं- कस्माद्भणितं वेदान्तवादिभिः १, तथा च तद्व्रन्थः- “अन्धे तमसि मज्जामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धम्र्म्मो, न भूतो न भविष्यती ॥ १ ॥ "ति ॥ आदिशब्दात् "अग्निर्मामेतस्मात् हिंसाकृतादेनसो मुञ्चतु " । छान्दसत्वान्मोचयतु इत्यर्थः, इत्यादिपरिग्रहः ॥ ८९४ ॥
एते यमाणा बुहे पडुच्चा ण लोगपुज्जत्ति | अबुहाणं पुण पुजा मंडलगाईवि किं तेहिं ? ॥ ८९५ ॥
For Private & Personal Use Only
elibrary.org