________________
धर्म. ५३
Jain Education
ध्यानामपि पशूनामुपकार इह-पशुभवेन तावद् दृष्टः तुः पुनरर्थे भिन्नक्रमश्च प्रेत्य पुनः - भवान्तरे पुनर्वध्याना| मुपकारोऽप्रमाणः - प्रमाणरहितो, न हि तत्र प्रत्यक्षं प्रवर्त्ततेऽतीन्द्रियत्वात् नाप्यनुमानं तस्यापि प्रायः प्रत्यक्षपूर्वक - त्वात् नाप्यागमो - वेदलक्षणः, तस्यापि दृष्टेष्टविरुद्धार्थभाषितया प्रामाण्यायोगात् । अथ न प्रदानमात्रं नापि वध्या| नासुपकारः पशुवधक्रियायाः फलं किंतु भूत्यादिकम् । यदुक्तम् - " श्वेतं वायव्यमजमालभेत भूतिकाम" इत्यादि, तत्राह - 'फलमवी' त्यादि फलमपि च-भूत्यादिकमत्र - वेदे पशूनां हन्तुरुच्यमानं न प्रमाणं-न प्रमाणभूतम् । कुत | इत्याह-व्यभिचारात् — विवाहादौ मन्त्रादिफलस्य वेदोक्तस्य तथाऽदर्शनात् ॥ ८८० ॥ उपसंहरतिएवं विसिक्का एत्थ असिद्धो तु होति नायवो । तदभावम्मिय साहणविगला सवेवि दिट्टंता ॥ ८८१ ॥
एवं - प्रदर्शितेन प्रकारेण यो विधिसंस्कारो हिंसाया अहिंसाभावापादक उक्तः सोऽसिद्ध एव, तुवधारणे, भवति ज्ञातव्यः । तदभावे च संस्काराभावे च ये अयस्पिण्डादयो दृष्टान्ता उक्तास्ते सर्वेऽपि विवक्षितार्थसाधनविकला ज्ञातव्याः । हेतोरसिद्धौ तेषां निरास्पदत्वात् ॥ ८८१ ॥ पुनरपि परस्य मतमाशङ्कते -
अह मंतपुवगं चिय आलभणं सवहा पयसेणं ।
For Private & Personal Use Only
jainelibrary.org