________________
२-4-MA
धर्मसंग्रहणीवृत्तिः
MAHARASHT
| आयेमूल
गुणे वैदि| कवधनिरासः
॥३१२॥
RRC
कथं तदभावे तत्सफलं भवेत् इति भावः। इति-तस्मात् शास्त्रस्यापि नैष्फल्यग्रसङ्गात् सर्वमिदं भवतः शास्त्रादिक विडम्बनेति ॥ ८७८ ॥ अपि च, प्रेक्षावतां प्रवृत्तिः फलवत्तया व्याप्ता, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात् , न च वेदविहितपशुवधक्रियायां फलमीक्षामहे, तथाचाह
ण य इह वेदवहम्मी दीसइ गुण मो पदाणमह इटैं।
वहमन्तरेण तं किं संपति लोए ण संभवति ? ॥ ८७९ ॥ | न च इह-अस्मिन् वेदवधे गुणः-फलं दृश्यते । 'मो' इति पूरणे । तस्मान्नात्र प्रेक्षावतां प्रवृत्तिरुपपन्नेति भावः। पराभिप्रायमाह-'पयाणमित्यादि' अथोच्येत यत् प्रदानं-प्रकृष्टं दानं लभ्यते तत् पशुवधक्रियायाः फलमस्माकमिष्टमिति । अत्राह-'वहेत्यादि' वधमन्तरेण तत्प्रदानं किं संप्रति लोके न संभवति ?, येनैवं नरकादिकुगतिहेतुभूतः स पशुवधः समारभ्यते इति ॥ ८७९ ॥ स्यादेतत् , न प्रदानमात्रं पशुवधक्रियायाः फलं किंतु तेषामेव वध्यानां |पशूनामुपकार इत्यत्राह
वज्झाणवि उवगारो इहं अदिट्रो उ पेच्च अपमाणो। फलमवि वभिचारातो ण पमाणं एत्थ विदुसाणं ॥ ८८०॥
|॥३१२॥
RA
JainEducationalitimes
For Private & Personel Use Only
www.jainelibrary.org