SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Education यतो जिनायतने कृते सत्यवश्यं यथाविहारक्रमं तत्र ग्रामादौ साधुनिवासो भवति, तथा तस्मिन् जिनायतने | तीर्थकरस्थापना, साधुसंपर्कतश्च तद्वासिनामसुमतां सर्वेषां प्रायः सदागमपरिवृद्धिः । एतचैकैकमपि भव्यानां प्रतनुक|र्मणां भावापन्निस्तरणगुणमेव । तुरेवकारार्थः । ततो जिनायतनं पृथिव्यादिवधेऽपि भावापन्निस्तरणगुणमिति ॥ ८७३ ॥ अथ कथं साधुनिवासाद्येकैकमपि भावापन्निस्तरणगुणमित्यत आह साहुणिवासा सद्धम्मदेसणा धम्मकायपरियरणं । तित्थगरठावणातो परमगुरुगुणागमो भणितो ॥ ८७४ ॥ साधुनिवासात् साधुसकाशमधिगतस्य सतः कस्यचिद्भव्यसत्त्वस्य सद्धर्म्मदेशना श्रोतव्या भवति, तथा धर्मका - यस्य - साधुशरीरस्य प्रासुककल्पनीय भेषजादिना प्रतिजागरणं कर्त्तव्यं भवति । एतच्चोभयमपि दुस्तरापारसंसारसागरनिस्तरणकारणम् । तथा तीर्थकरस्थापनातस्तद्दर्शनानन्तरं परमगुरोस्तीर्थकरस्य ये गुणा - वीतरागत्वादयस्तेषामागमः - अवबोधो भणितस्तीर्थकर स्थापनाफलत्वेन समयवेदिभिः, एषोऽपि च परमगुरुगुणागमः केषांचिल्लघुकर्म्मणां | तथाविधशुभाध्यवसायहेतुतया भावापन्निस्तरणगुणः ॥ ८७४ ॥ सज्झयाझाणकरणे आगमपरिवड्ढणं ततो नियमा । For Private & Personal Use Only jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy