SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३१०॥ | इत्येवंलक्षणमपेक्ष्य सा क्रियेत यदि तदा स्यात्तस्यामपि परिणामः शुभवाद्यालम्बनः, न चासावापन्निस्तरणगुणो वेदवधेऽस्ति, तमन्तरेणैव भावापदो निस्तरणस्य भावात् न च जिनायतनविधौ साधुनिवासादिवद्वेदविहितवधेऽपि भावापन्निस्तरणसमर्थ गुणान्तरं दृष्टं, तत्कथमिह वेदवधे परिणामः शुभवाह्यगतो भवेत् ? ॥ ८७१ ॥ जिनायतनविषये च भावापन्निस्तरणसमर्थ गुणान्तरं साधुनिवासादिकं दर्शयति सइ सवत्थाभावे जिणाण भावावयाऍ जीवाणं । सिं नित्थरणगुणं पुढवादिवहेवि आयतणं ॥ ८७२ ॥ सदा सर्वकालं सर्वत्र - क्षेत्रे जिनानामभावे भावापदि जीवानां सत्यां तेषां जीवानां निस्तरणगुणं-भावापदो निस्तरणोपायभूतं पृथिव्यादिजीववधेऽपि जिनानामायतनं, ततस्तत्र पृथिव्यादिवधेऽपि परिणामः शुभबाह्यालम्बनो भवति ॥ ८७२ ॥ अथ मन्येथाः कथमिदं जिनायतनं भावापन्निस्तरणगुणमित्यत आह Jain Education International साहुणिवासो तित्थगरठावणा आगमस्त परिवुड्डी । एक्केकं भावावइनित्थरणगुणं तु भवाणं ॥ ८७३ ॥ For Private & Personal Use Only आद्येमूलगुणे वैदिकवधनि रासः ॥३१० ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy