________________
धर्मसंग्रहणीवृत्तिः
॥३०९ ॥
Jain Education
सिय आगमो न सो च्चिय विवादविसयो जतो एत्थ ॥ ८६८ ॥
अथोच्येत - तदन्यस्मात् हिंस्यमानात् 'से' तस्य पशोर्वेदविहितविधिना हिंस्यमानस्य देवत्वलक्षणं भावान्तरमस्ति तत्कथमस्यां हिंसायां न दोषाभाव इति । अत्राह - 'किमित्यादि किं तस्य - देवत्वलक्षणस्य भावान्तरस्य ग्राहकं प्रमाणं ?, नैव किंचिदितिभावः । अतीन्द्रियत्वेन तत्र प्रत्यक्षस्यानुपपत्तेस्तदनुपपत्तौ च तत्पूर्वकत्वादनुमानस्याप्यभावात् । परस्य | प्रमाणमाशङ्कते - 'सिय आगमो' त्ति स्यादेतत्-कथमुच्यते न किंचित्तस्य ग्राहकं प्रमाणमस्ति यावताऽस्त्येवागमो - वेदलक्षणस्तद्वाहकं प्रमाणमिति । अत्राह - 'ने' त्यादि यदेतदुक्तं तन्न, यतो- यस्मादत्र - विचारप्रक्रमे स एव-वेदलक्षण आगमो दृष्टेष्टविरुद्धार्थ भाषकतया प्रामाण्यं प्रति विवादविषयः, तत्कथमसौ स्वयमसिद्धः सन्नन्यस्य साधनायालं भवेत् । एतेन विषदहनादीनामपि मरणदाहा भावकुष्ठापगमाद्यन्यथानुपपत्तितो भावान्तरस्यानुमीयमानत्वात्तैरपि सह वैधर्म्य प्रतिपादितं द्रष्टव्यम् ॥ ८६८ ।। परस्य मतमाशङ्कमान आह
परिणामविसेसातो पुढवादिवोऽवि अह जिणातयणे (यतणे ) । भणिओ गुणाय एवं वेदवहो हंत किन्न भवे ? ॥ ८६९ ॥
अथोच्येत जिनायतने क्रियमाणे पृथिव्यादिषड्डीवनिकायवधोऽपि कारयितुः परिणामविशेषात् गुणाय भणितः,
For Private & Personal Use Only
आद्येमूलगुणे वैदिकवधनिरासः
॥३०९ ॥
www.jainelibrary.org