________________
Jain Education
ते समं वेधम्मं असाहगमिणं न पेच्छति ॥ ८६६ ॥
ते तु - वेदवादिनोऽयस्पिण्डादिदृष्टान्तमात्रवलादेवम् - उपदर्शितप्रकारेण मुग्धजनविस्मयकरं वदन्ति, न तु विद्वजनमनःप्रहृत्तिकरं यतस्तेन दृष्टान्तेन समं वैधर्म्यमिदं - वक्ष्यमाणलक्षणमसाधकं यत्तन्न प्रेक्षन्ते ॥ ८६६ ॥ तदेव |वैधर्म्यमुपदर्शयति
अयपिंडे भावंतरभावो पच्चक्खसंपसिद्धो उ ।
तणुरुवो न य दीसइ पसुम्मि सो वेदविहिणावि ॥ ८६७ ॥
अयस्पिण्डे हि संस्कारविशेषात्तनुरूप भावान्तरभावः प्रत्यक्ष संप्रसिद्ध एव । तुरेवकारार्थः । ततस्तत्र शक्त्यन्तरो - पेतभावान्तरभावनिबन्धनो जलान्तर्मजनलक्षणदोषाभावो युक्तः, न च पशौ - छागादिलक्षणे वेदविधिनाऽपि - वेदवि - हितेनापि विधिना हिंस्यमाने तदन्यस्मात् हिंस्यमानात् चण्डालगृहादौ स यथोक्तविधिनिबन्धनशक्त्यन्तरोपेतो भावान्तरभावो दृश्यते, न चापश्यन्त आत्मानं विप्रलभेमहि, तत्कथं तदन्यस्यामिव हिंसायां न दोष इति ॥ ८६७॥ देवत्तं से भावतरंति किं तस्स गाहगं माणं ? |
For Private & Personal Use Only
jainelibrary.org