________________
दिदं च तबिसेसा अयपिंडादीण तरणादी॥ ८६२॥ केचिद्वेदवादिनो ब्रुवते यथा-वेदविहिता हिंसा न दोषाय, साधुसंस्कारात्-यथोक्तविधिना सम्यक संस्कारात् । अथ यद्यपि साधुसंस्कारस्तथापि कथं तस्या दोषनिबन्धनत्वाभाव इत्यत आह-'दिद्वं चेत्यादि' दृष्टं च तद्विशेषात्संस्कारविशेषात् अयस्पिण्डादीनामादिशब्दाद्विषादिपरिग्रहः, तरणादि, आदिशब्दाद्गुणकारित्वादि, ततस्तद्वत् हिंसायाः खरूपेण दोषकारित्वेऽपि यथोक्तविधिकृतात् संस्कारविशेषात् न दोषकारिता भविष्यतीति ॥ ८६२॥ एतदेव भावयति
बुड्डइ जलि मुक्को अयपिंडो सक्कारिओ य तरइत्ति ।
मारणसत्तीवि विसं साधु पउत्तं गुणं कुणति ॥ ८६३ ॥ जले मुक्तस्सन्नयस्पिण्डो 'बुड्डइत्ति' निमजति, स एव संस्कारितः-संस्कारविशेषमापादितो वृत्ततनुपत्ररूपतया कृत इतियावत् तरति जलस्योपरि प्लवते, तथा मारणशक्तिकमपि विषं साधु-मन्त्रागदादिकृतविशेषं प्रयुक्तं सत् गुणं कुष्ठापगमादिकं करोति ॥ ८६३॥
तह दाहगोऽवि अग्गी सच्चादिपभावतो न दहइत्ति ।
Jain Education
For Private & Personel Use Only
Waw.jainelibrary.org