________________
धर्म संग्रह - णीवृत्तिः
॥३०७॥
Jain Education Int
पंचमगो गामादिसु अप्पबहुविवज्जणेमेव ॥ ८६० ॥
दिव्यादिमैथुनस्य च आदिशब्दान्मनुष्यादिपरिग्रहः, यथोक्तम्- "से दिवं वा माणुस्सं वा तिरिक्खजोणियं वेति" विवर्जनं सर्वथा स्वयंकरणादिभिः प्रकारैश्चतुर्थो मूलगुणः । पञ्चममूलगुणो ग्रामादिषु आदिशब्दान्नगरादिपरिग्रहः, तदुक्तम् - " से गामे वा नगरे वा रन्ने वेति” अल्पबहुविवर्द्धनमेवमेव सर्वथा सुप्रणिधानमिति ॥ ८६० ॥ असणादिभेदभिन्नस्साहारस्सा चउद्विहस्सावि ।
निसि हा विरमणं चरमो समणाण मूलगुणो ॥ ८६१ ॥
अशनादिभेदभिन्नस्य - अशनपानखादिम खादिमभेदभिन्नस्य आहारस्य चतुर्विधस्यापि सर्वथा निशि विरमणं चरमःपश्चिमः षष्ठ इतियावत् श्रमणानां मूलगुण इति ॥ ८६१ ॥ इदानीमेषां मूलगुणानां निष्प्रतिपक्षसाधुत्वनिश्चयोत्पादनार्थं प्रतिमूलगुणमाक्षेपपरिहाराभिधित्सुः 'यथोद्देशं निर्देश' इति न्यायात् पूर्वं तावत् प्रथमं मूलगुणमाश्रित्याक्षेपमुपक्षिपन्नाह
केई न वेदविहिता हिंसा दोसाय साहुकारा ।
१ तत् दिव्यं वा मानुषं वा तैर्यग्योनिकं वा । २ तत् ग्रामे वा नगरे वाऽरण्ये वा ।
For Private & Personal Use Only
मूलगुणाः
॥३०७॥
www.jainelibrary.org