________________
धर्म. ५२
सूक्ष्मादीनां जीवानामादिशब्दाद्वादरादिपरिग्रहस्तदुक्तम् - " से सुहुमं वा वायरं वा तसं वा थावरं वेत्यादि” सर्वेषां न तु केषांचिदेव सर्वथा - सर्वैः प्रकारैः कृतकारितादिभिः, सुप्रणिधानमिति क्रियाविशेषणं शुभसमाधानेनेत्यर्थः प्राणातिपातविरमणं - प्राणातिपातविनिवृत्तिरिह- मनुष्यलोके प्रवचने वा प्रथमो भवति मूलगुणः । प्राथम्यं चास्य | शेपत्रताधारत्वात् सूत्रक्रमप्रामाण्यानुसरणाद्वेति ॥ ८५८ ॥
कोहादिपगारेहिं एवं चिय मोसविरमणं बितिओ ।
एवं चि गामादिसु अप्पबहु ( अदत्त) विवज्जणं तइओ ॥ ८५९ ॥
क्रोधादिभिः प्रकारैरादिशब्दा लोभादिपरिग्रहस्तदुक्तम् - " से कोही वा लोहा वा भया वा हासा वेति” एवमेव | सर्वस्य वस्तुनो विषये सर्वथा सुप्रणिधानपूर्वकं मृषावादविरमणं द्वितीयो मूलगुणः, द्वितीयत्वं चास्य सूत्रक्रमप्रामाण्यानुसरणात्, एवं तृतीयत्वाद्यपि द्रष्टव्यम् । 'एवं चियेत्यादि' एवमेव प्राग्वदेव ग्रामादिषु आदिशब्दान्नगरादिपरिग्रहस्तथा चोक्तम्- " से गामे वा नगरे वा रन्ने वेति" अदत्ताल्पबहुविवर्जनं तृतीयो मूलगुणः ॥ ८५९ ॥ दिवादिमेहुणस्स य विवज्जणं सवहा चउत्थो उ ।
१ स सूक्ष्मो वा बादरो वा नसो वा स्थावरो वा । २ स क्रोधाद्वा लोभाद्वा भयाद्वा हासाद्वा । ३ तत् प्रामे वा नगरे वाऽरण्ये वा ।
For Private & Personal Use Only
w.jainelibrary.org