SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ मानो मतिश्रुतावधिज्ञानानि युगपत्प्रतिपद्यते इति । अवधेरनन्तरं मनःपर्यवज्ञानोपन्यासे प्रयोजनमाह-'माणसेत्यादि' मनसि विषये भवं मानसं-मनःपर्यवज्ञानम् अतः-अवधेरनन्तरं भणितम् । कुत इत्याह-छास्थविषयभावादिसाधात्-छद्मस्थखामिसाधर्म्यात् पुद्गलमात्रविषयसाधात् क्षायोपशमिकभावसाधात्, आदिशब्दात्प्रत्यक्षत्वसाधाचेति ॥ ८५४ ॥ मनःपर्यवज्ञानानन्तरं केवलोपन्यासे प्रयोजनमाह अंते केवलमुत्तमजतिसामित्तावसाणलाभातो। एत्थं च मइसुयाइं परोक्खमितरं च पञ्चक्खं ॥ ८५५॥ | अन्ते-पर्यन्ते केवलं केवलज्ञानमुपन्यस्तमुत्तमत्वात् , तथा यतिखामिसाधर्म्यात् , केवलज्ञानं हि मनःपर्यवज्ञानमिव 3 परमयतेरेव भवतीति, तथा सर्वावसानलाभाच, तथाहि-यः सर्वाण्यपि ज्ञानानि समासादयितुं योग्यः स नियमात् | सर्वज्ञानावसाने केवलज्ञानं लभते ॥ तदेवं क्रमोपन्यासे प्रयोजनमभिधाय सांप्रतं किं प्रत्यक्षं किं वा परोक्षमित्येतदर्शयति-'एत्थं चेत्यादि' अत्र च-ज्ञानपञ्चके मतिश्रुते परोक्षे, परनिमित्तत्वात् , इतरच-अवध्यादित्रयं प्रत्यक्षमात्मनः साक्षाद्भवनात्, उक्तं च-"तत्र परोक्षं द्विविधं श्रुतमाभिनिवोधिकं च विज्ञेयम् । प्रत्यक्षं त्ववधिमनःपर्यायौ केवलं चे ॥१॥ति' ॥८५५॥ तदेवं सप्रपञ्चं ज्ञानमभिधाय सांप्रतं चारित्रमभिधित्सुराह SAGESGARCAMARCRACK Jain Education M a For Private & Personal Use Only Tww.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy