________________
धर्मसंग्रहणीवृत्तिः
॥३०५॥
मतिभेदो चेव सुतं तो मतिसमणंतरं भणियं ॥ ८५३ ॥
ज्ञानाना मतिः पूर्व-कारणं यस्य तन्मतिपूर्व येन कारणेन श्रुतं-श्रुतज्ञानं तेन कारणेनादौ मतिः-मतिज्ञानं भणितम् । यद्वा
क्रमकरणे
प्रयोजन इन्द्रियानिन्द्रियनिमित्तत्वाविशेषादुभयमप्यविशेषेण मतिस्ततश्च विशिष्ट एव कश्चिन्मतिभेदः शब्दार्थालोचनानुसारी येन कारणेन श्रुतमभिधीयते 'तो' ततो मतिसमनन्तरं मतिज्ञानानन्तरं भणितं तीर्थकरगणधरैरिति ॥ ८५३॥ | सांप्रतं मतिश्रुतज्ञानानन्तरमवधिज्ञानोपन्यासे प्रयोजनमाह
कालविवजयसामित्तलाभसाहम्मतोऽवही तत्तो।
माणसमेत्तो छउमत्थविसयभावादिसामन्ना (धम्मा) ॥ ८५४ ॥ कालादिसाधर्म्यात्ततो-मतिश्रुतज्ञानतोऽनन्तरमवधिः-अवधिज्ञानमुपन्यस्तम् । तत्र कालसाधर्म्य यावानेव हि । मतिज्ञानश्रुतज्ञानयोः कालस्तावानेवावधिज्ञानस्य । विपर्ययसाधर्म्य यथा मिथ्यादर्शनपरिग्रहे सति मतिश्रुतयोर्विपर्या
॥३०५॥ सस्तथाऽवधेरपि, “आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तमिति" वचनात् । खामिसाधर्म्य य एव मतिज्ञानश्रुतज्ञानयोः खामी स एव चावधिज्ञानस्य । लामसाधर्म्य विभङ्गज्ञानसमन्वितो हि देवः सम्यक्त्वं प्रतिपा(प)द्य
For Private Personal use only
Jan Education in
Jainelibrary.org