SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥३०४॥ Jain Education कमकरणे पुण भणियं पओयणं दिट्ठसमयसारेहिं । आभिणिबोहादीणं वोच्छामि तयं समासेणं ॥ ८५१ ॥ क्रमकरणे-इत्थमाभिनिवोधिकादीनां ज्ञानानां परिपाटीकरणे यत्पुनर्भणितं प्रयोजनं दृष्टसमयसारैः - अवगतसकलप्रवचनसारैस्तदहं समासेन वक्ष्यामि ॥ ८५१ ॥ यथाप्रतिज्ञातमेवाह - जं सामिकालकारणविसयपरोक्खत्तणेहि तुल्लाई । तब्भावे सेसाणि य तेणाईए मतिसुताई ॥ ८५२ ॥ यत् - यस्मात्खामि कालकारणविषयपरोक्षत्वैस्तुल्ये समाने मतिश्रुते-आभिनिवोधिकज्ञानश्रुतज्ञाने । प्राकृतत्वाच द्वित्वेऽपि बहुवचनं, यथा “जह हत्था तह पाया ” इति । तत्र खामितुल्यता-य एव मतिज्ञानस्य खामी स एष | श्रुतज्ञानस्य य एव श्रुतज्ञानस्य स एव मतिज्ञानस्य । “जेत्थ मइनाणं तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ मइनाणमिति” वचनात् । कालतुल्यता यावानेव मतिज्ञानस्य स्थितिकालस्तावानेव श्रुतज्ञानस्य, तत्र प्रवाहापेक्षया अतीतानागत१ जहा इत्था (ता) पाया इति कपुस्तके । यथा हस्तौ (तथा) पादौ । २ यत्र मतिज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतज्ञानं तत्र मतिज्ञानम् । For Private & Personal Use Only ज्ञानानां क्रमकरणे प्रयोजनं ॥३०४ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy