________________
चिरसंचियपि हु तणं खणेण दावानलो दहति ॥ ८४९ ॥ यस्मात्प्रतिसमयं कतिपयांशविच्युतावपि तदावारककर्मणः प्रतिसमयमेव तावत्प्रमाणापरकमांशबन्धसंभवस्तातस्मात्तत्त्वतश्चरम एव समये तस्य क्षयः, न च वाच्यं कथमेतावतः समयमात्रेण क्षयः कर्तुं शक्यते इति, यतो ध्यानविशेषात्तावतोऽपि क्षयः कर्तुं शक्यते एव, नहि ध्यानविशेषस्य तथाविधस्य किंचिदसाध्यमस्तीति । अत्रैव दृष्टान्तमाह-चिरसंचितमपि-प्रभूतकालोपचितमपि 'हु' निश्चितं तृणं-जातावेकवचनं तृणसंघातं क्षणेन-क्षणमात्रेण दावानलो दहति तद्वत् ध्यानविशेषदहनोऽपि कर्मेन्धनानीति ॥ ८४९ ॥ मूलोपसंहारमाह
एवं अवग्गहातो आरब्भ इहेगमेव नाणंति ।
मिच्छत्तमेव अहवा णो खलु सामन्नवेक्खाए ॥ ८५०॥ | एवम्-उपदर्शितप्रकारेण इह-विचारप्रक्रमे यदुक्तमवग्रहादारभ्य यत्किमपि छद्मस्थस्य विज्ञानं तत् सर्वमेकमेवेति । ४ तन्मिथ्यात्वमेव । अथवा सामान्यापेक्षया-बोधरूपसमानपरिणत्यपेक्षया बोधरूपं न मिथ्यात्वं, किंतु सम्यक्त्वमेव,18
सद्भूतवस्तुविषयत्वादिति ॥८५०॥ नन्वेषामाभिनिवोधिकादिज्ञानानामित्थंक्रमोपन्यासे किंचित् प्रयोजनमस्ति उत | यथाकथंचिदेष प्रवृत्त इति ?, अस्तीति ब्रूमः, तथा चाह
Jain Education
For Private & Personel Use Only
Mjainelibrary.org