________________
धर्मसंग्रहणीवृत्तिः ॥ ३०३ ॥
Jain Education Int
सहकारिहेतुविरहात्-छद्मस्थ भावलक्षण सहकारिकारणाभावात्, यथा नक्षत्रादीनि निशालक्षणसहकारिकारणाभावतः तथा 'तत्खभाव्याचैव' तेषा हि आभिनिवोधिकादीनां ज्ञानानामेवंभूतः स्वभावो यावन्न केवलाभिव्यक्ति|स्तावत्सफलता तदभिव्यक्तौ च निष्फलतेति । तत इति : - एवमुपदर्शितप्रकारेण केवलभावात् सर्वज्ञत्वे सत्यविरोधो ज्ञातव्य इति स्थितम् ॥ ८४७ ॥ यदप्युक्तम्- 'चरमावरणस्स खओ' इत्यादि, तत्रोभयपक्षेऽपि दोषाभावमाह - चरमावरणस्स खए पतिसमयम्मिवि ण तस्स भावोति । तस्साहवाउच्चिय तब्बंधातो य पतिसमयं ॥ ८४८ ॥
चरमावरणस्य- केवलज्ञानावरणस्य प्रतिसमयमपि क्षये सति न तस्य- केवलज्ञानस्य भावः - प्रादुर्भावः । कुत इत्याह'तत्वाभाव्यादेव' केवलज्ञानस्य हीत्थंभूत एव स्वभावो यदुत निःशेषतः खावारककर्म्मपरिक्षये सति प्रादुर्भावस्तथा च सति कुतो देशतः क्षये तद्भाव इति । तथा 'तबंधाओ य पइसमयमिति' यद्यपि तस्य प्रतिसमयं देशतः क्षयस्तथापि प्रतिसमयमेव तावदपरतदावारककर्म्मपुद्गलसंघातबन्धनान्न तस्य केवलज्ञानस्य भावः ॥ ८४८ ॥ | उपसंहारमाह
ता चरमए च्चिय खओ झाणविसेसातों तीरए काउं ।
For Private & Personal Use Only
ज्ञानानां प्रकाराः
॥ ३०३ ॥
ainelibrary.org