________________
Jain Education I
अने भांति आभिणिबोधादीणिवि जिणस्स विनंति । अफलाणि य सूरुदए जहेव णक्खत्तमादीणि ॥ ८४६ ॥
अन्ये आचार्याः प्रवचनोपनिषद्वेदिनो भणन्ति यथा - आभिनिबोधिकादीन्यपि ज्ञानानि जिनस्य- केवलिनो विद्यन्ते, न च वाच्यम्-एवं सत्यस्मादृशस्येव तस्याप्यसर्वज्ञत्वप्रसङ्गः । कुत इत्याह- 'अफलेत्यादि', चो हेतौ यस्माद| फलानि देशमात्र परिच्छित्तिलक्षणखफलविकलानि तानि विद्यमानान्यपि ज्ञानानि जिनस्य । कथमिवेति दृष्टान्तमाह - 'सूरुदये' इत्यादि, यथा नक्षत्रादीनि आदिशब्दाच्चन्द्रग्रहतारकापरिग्रहः, निशि खफलसाधकान्यपि सन्ति सूर्योदये प्रादुर्भूते सत्यफलानि भवन्ति, तथा अमून्यपि आभिनिबोधिकादीनि ज्ञानानि प्राक् सफलान्यपि सन्ति | केवलज्ञानभावे सत्यफलानि जायन्त इति ॥ ८४६ ॥ कथं पुनः प्राक् सफलान्यपि तानि ज्ञानानि पश्चादफलानि
जायन्त इत्याह
सहकारिहेतुविरहा तस्साभावाउ चेव नायवो । केवलभावातो इय सर्व्वन्नुत्तम्मि अविरोहो ॥ ८४७ ॥
For Private & Personal Use Only
jainelibrary.org