________________
धर्मसंग्रहणीवृत्तिः
ज्ञानानां पञ्चप्रकारता
॥३०॥
स्यानुपपत्तेरित्यक्षरानक्षरकृतो भेदः। तथा मूककल्पं मतिज्ञानं खमात्रप्रत्यायनफलत्वात् , अमृककल्पं श्रुतज्ञानं खपरप्रत्यायकत्वादिति मूकामूकदृष्टान्तकृतो भेदः । तदेवं परिस्थूरनिमित्तभेदादाभिनिबोधादिको भेदो ज्ञानस्य युक्तियुक्त एवेति स्थितम् ॥ ८४०॥
__ एवं च सवविसयं जतिवि य चरममिह तहवि सिद्धो तु ॥
णेयविसेसो तेसिं धम्मंतरजुत्तसिद्धीओ ॥ ८४१॥ एवं च सति परिस्थूरान्निमित्तभेदाद्देदे सति यद्यपि चरममिह केवलज्ञानं सर्वविषयं तथापि ज्ञेयविशेषस्तेषामा[भिनिबोधिकादिज्ञानभेदानां सिद्ध एव । तुरेवकारार्थः। कुत इत्याह-'धम्मंतरजुत्तसिद्धीओ' धर्मान्तरयुक्तस्य वस्तुनः |सिद्धेः-प्रतीतेः । तथाहि-वर्तमानकालभावि स्पष्टरूपं च वस्त्वाभिनिवोधिकेन परिच्छिद्यते, अस्पष्टरूपं त्रिकालावलम्बि च श्रुतज्ञानेनेत्यादिरूपो ज्ञेयविशेषः सुप्रसिद्ध एव, एषोऽपि भेदस्य प्रसाधको द्रष्टव्यः, एवं प्रतिपत्तिविशेपोऽपि ॥ ८४१॥ यदपि तत्रानेकभेदभावप्रसजनमुक्तं तदप्यसंगतम् , यत आह
णय पडिवत्तिविसेसा एगम्मि अणेगभेदभावोऽवि । जं ते तहाविसिट्टे ण जातिभेदे विलंघेति ॥ ८४२ ॥
॥३०॥
For Private Personal Use Only
JainEducationine
www.jainelibrary.org