________________
धर्म. ५१ Jain Education
वेलद्धीवि । मइरेवं सइ सोउग्गहादयो हुंति मइभेया ॥ १ ॥ इति” ॥ तदेवं सर्वस्याः शेषेन्द्रियोपलब्धेरुत्सर्गेण मतिज्ञानत्वे प्राप्ते सति अपवादमाह - 'मोचूर्ण दद्यसुयंति' मुक्त्वा द्रव्यश्रुतं पुस्तकपत्रादिन्यस्ताक्षररूपद्रव्यश्रुतविषयां शब्दा| पर्यालोचनात्मिकां शेषेन्द्रियोपलब्धि, तस्याः श्रुतज्ञानखभावत्वात् । यश्च द्रव्यश्रुतोपलब्धिव्यतिरेकेणान्योऽप्यक्षरलाभः शब्दार्थपर्यालोचनात्मको न तु केवलो मतेरपीहादिरूपाया अन्तर्जल्पाकाररूपाक्षरलाभात्मकत्वात् शेषेष्विन्द्रियेषु सोऽपि श्रुतमुच्यते । ननु यदि शेषेन्द्रियाक्षरलाभोऽपि श्रुतमुच्यते तर्हि यत् आदाववधारणमकारि 'श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति' तन्न घटासंटङ्कमाटीकते, शेषेन्द्रियाक्षरलाभस्य श्रुतत्वेनाभ्युपगतस्याश्रोत्रेन्द्रियोपलब्धि| त्वादिति । नैष दोषः । यत इह शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिद्दोषः । तथा वल्कसमं मतिज्ञानं कारणत्वात् शुम्बसमं श्रुतज्ञानं तत्कार्यत्वात्, संचित्य हि मत्या श्रुतपरिपाटीम नुसरतीति, वल्कशुम्बदृष्टान्तेन मतिश्रुतयोर्भेदः । तथा मतिज्ञानमनक्षरं साक्षरं च तत्रावग्रहज्ञानमनक्षरं तस्यानिर्देश्यसामान्यमात्रप्रतिभासात्मकतया निर्विकल्पत्वात्, | ईहादिज्ञानं तु साक्षरं परामर्शादिरूपतया वर्णारूपित्वात् श्रुतं पुनः साक्षरमेव अक्षरमन्तरेण शब्दार्थपर्यालोचन१ पलब्धिरपि । मतिरेवं सति श्रोत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १॥
For Private & Personal Use Only
jainelibrary.org