SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Jain Education चरमावरणस्स खओ पइसमयं चरमए व होजाहि । पतिसमये तब्भावोऽसगलो सो कस्स भेदोत्ति ? ॥ ८३२ ॥ चरमावरणस्य- केवलज्ञानावरणस्य क्षयः किं प्रतिसमयं भवेत् किंवा चरमे समये ? इति पक्षद्वयम् । तत्र यद्याद्यः पक्षस्ततः प्रतिसमय-समये समये स तद्भावः - केवलज्ञानसद्भावोऽसकलः - खण्डरूपः कस्याभि निबोधिकादेर्भेदः स्यात् ?, क्क पञ्चानां भेदानामन्यतरस्मिन् भेदेऽन्तर्भवेत् ?, नैव क्वचिदिति भावः । तथाहि - नाभिनिबोधिकादिषु, तद्विलक्षणत्वात्, न केवलज्ञाने छद्मस्थस्य तदनभ्युपगमादिति ॥ ८३२ ॥ अह सतिविम्मि भावो ण तस्स पतिसमयमेव इट्ठोत्ति । कहमाभिणिबोहादिसु तब्भावे हंत भावोति ? ॥ ८३३ ॥ अथ मन्येथाः सत्यपि तस्मिन् - प्रतिसमयमावरणक्षये न तस्य- केवलज्ञानस्य प्रतिसमयमेव भाव इष्टः, पूर्वोक्तदोषप्रसङ्गात्, किंतु चरमसमय एवेति । यद्येवं तर्हि कथमाभिनिवोधिकादिष्वपि ज्ञानेषु तद्भावे - प्रतिसमयमावर १ केवलज्ञानाद्भावोऽसकलः इतिकपुस्तके । ational For Private & Personal Use Only *** www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy