SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Jain Education Int आभिनिवोधिकज्ञानस्य ज्ञेयं, त्रिकालवर्त्ति च शब्दगोचरः सामान्यं श्रुतज्ञानस्येत्यादि । अत्राह - 'नेत्यादि' यदेतदुक्तं तन्न । यस्मात्सर्वविषयं सर्वे - अभिनिवोधिकादिज्ञानविषया अपि विषया यस्य तत्तथा चरमं केवलज्ञानं, न च तत्र विषयभेदेऽपि भेदोऽस्ति, तन्नासौ भेदसाधनायालमिति ॥ ८२८ ॥ अह पडिवत्तिविसेसा णेगम्मि वऽणेगभेदभावातो । आवरणविभेदोवि हु सहावभेदं विणा न भवे ॥ ८२९ ॥ अथोच्येत न विषयभेदात् ज्ञानस्य भेदमिच्छामः किंतु प्रतिपत्तिविशेषात् - प्रतिपत्तिप्रकारभेदादिति । तदपि न युक्तम् । कुत इत्याह-एकस्मिन्नप्यनेकभेदभावात् - एकस्मिन्नपि ज्ञाने अनेकभेदभावप्रसङ्गात्, देशकालपुरुषस्वरूपभेदेन प्रत्येकमाभिनिवोधिकादिज्ञानानां प्रतिपत्तिप्रकारानन्त्यभावात् । स्यादेतत्, तदावरणीयं कर्म्म अनेकभेदमतस्तदावार्य ज्ञानमप्यनेकभेदत्वं प्रतिपद्यत इत्यत आह- 'आवरणेत्यादि' आवरणविभेदोऽपि 'हु' निश्चितं न स्वभावभेदं विना भवितुमर्हति, आवार्यापेक्षं ह्यावरणं तच्चैकखभावमिति कथं तदावरणमनेकधा भवेदिति ॥ ८२९ ॥ अथ निपप्तदयं मा दोष इति स्वभावतोऽपि ज्ञानस्य भेद इष्यते इति, अत्राह तम्मिय सति सवेसिं खीणावरणस्स पावती भावो । For Private & Personal Use Only Sanelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy