________________
सामर्थ्य मात्राभिधानस्य सफलत्वात् , तदुक्तम्-“वडंतो पुण बाहिं लोगत्थं चेव पासई दवं । सुहुमयरं सुहुमयर परमोही जाव परमाणुं ॥१॥” इति ॥ ८२५ ॥ अधुना मनःपर्यवज्ञानमाह
मणपज्जवनाणं पुण जणमणपरिचिंतितत्थपागडणं ।
माणुसखेत्तनिबद्धं गुणपच्चइयं चरित्तवतो ॥ ८२६ ॥ मनःपर्यवज्ञानं प्रागुक्तशब्दार्थ, पुनःशब्दो विशेषणार्थः वक्ष्यमाणच्छद्मस्थखाम्यादिसाम्येऽपि सति अप्रमत्तयतिखाम्यादिभेदेन भिन्नमिदमवधिज्ञानादिति विशेषयति, जनानां मनांसि जनमनांसि तैः परिचिन्तितो योऽर्थस्तं प्रकटयति-प्रकाशयतीति जनमनःपरिचिन्तितार्थप्रकटनं मानुषक्षेत्रम्-अर्द्धतृतीयद्वीपपरिमाणं तन्निवद्धं न तद्वहिव्यवस्थितप्राणिमनःपरिचिन्तितार्थविषयं प्रवर्तत इतियावत् । गुणाः-आमोषध्यादिलब्धिहेतवः क्षान्त्यादयः त एव प्रत्ययाः-कारणानि यस्य तत् गुणप्रत्ययम् , चारित्रं-वक्ष्यमाणखरूपं तद्यस्यास्ति स चारित्रवान् तस्येदं भवति नान्यस्य, एतदुक्तं भवति-अप्रमत्तसंयतस्यामोषध्यादिऋद्धिप्राप्तस्य भवतीति ॥ ८२६ ॥ केवलज्ञानमाह
अह सबदवपरिणामभावविन्नत्तिकारणमनंतं । १ वर्धमानः पुनर्बहिर्लोकस्थं चैव पश्यति द्रव्यम् । सूक्ष्मतरं सूक्ष्मतरं परमावधिर्यावत्परमाणुम् ॥
Jain Educati
o
nal
For Private & Personel Use Only
O
ww.jainelibrary.org