SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ . धर्मसंग्रहणीवृत्तिः अवधिज्ञान ॥२९५॥ SAROSASURESSISAST इति । किंविषयं पुनस्तदवधिज्ञानं प्रथमत उत्पद्यत इत्यत आह-'तेयेत्यादि' तैजसानि च भाषाश्च-भाषायोग्यानि द्रव्याणि च तेषामन्तरं-यानि उभयायोग्यानि तत्र संभवः-उत्पत्तिर्यस्य तत्तथा, 'रूविविसयं त्विति' तुरेवकारार्थः रूपिविषयमेव न त्वरूपिविषयम् । ननु यदि रूपिविषयमेवावधिज्ञानं तर्हि किमुक्तमागमे-"खेत्तओ णं ओहिन्नाणी जहन्नेण अंगुलाखेजइभागं जाणइ पासइ, उक्कोसेणं असंखिजाई अलोगे लोगमेत्ताई खंडाई जाणइ पासइत्ति" इह हलोकोऽप्यसंख्येयलोकमात्रखण्डात्मकोऽवधिज्ञानस्य विषय उक्त इति, तदयुक्तम् , अभिप्रायापरिज्ञानात् , नहि तत्राकाशखण्डान्येव लोकप्रमाणानि असंख्येयानि विषयतया साक्षानिर्दिष्टानि, किंतु यदि तत्रापि द्रष्टव्यं रूपि वस्तुजातं भवेत् तत एतावन्मात्रे क्षेत्रे पश्येदिति संभवमाश्रित्य सामर्थ्यमात्रयु(मुक्तम् , “न उ पेच्छइ खेत्तकाले सो" इतिवचनात् , तथाचाह भाष्यकृत्-सामत्थमित्तमेयं दट्टव्वं जइ हवेज पेच्छेजा । न उ तं तत्थत्थि जओ सो रूविनिबंधणो भणिओ॥१॥” इति । यदि तान्याकाशखण्डानि न साक्षादवधेविषयस्तर्हि किं तेन सामर्थ्यमात्रेणाप्यभिहितेन निष्फलत्वादिति चेत् । न । तस्य तथाप्रकर्षभावद्योतनेन लोकाकाशस्थसूक्ष्मसूक्ष्मतररूपिवस्तुजातविषयतासूचने १ क्षेत्रतः अवधिज्ञानी जघन्येनाङ्गुलासंख्येयभागं जानाति पश्यति, उत्कर्षेणासंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति पश्यति॥२ न तु पश्यति क्षेत्रकालौ सः । ३ सामर्थ्यमात्रमेतत् द्रष्टव्यं यदि भवेत् पश्येत् । न तु तत् तत्रास्ति यतः स रूपिनिबन्धनो भणितः । ॥२९५॥ Jain Education in For Private Personel Use Only X Dainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy