SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ओहिन्नाणं भवजं खओवसमियं च होति नायवं । तेयाभासंतरदवसंभवं रूविविसयं तु ॥ ८२५ ॥ अवधिज्ञानं पूर्वोक्तशब्दार्थ भवजं-भवप्रत्ययं क्षायोपशमिकं च भवति ज्ञातव्यम् । तत्र भवजं देवनारकाणां, क्षायोपशमिकं तिर्यगमनुष्याणाम् । नन्वाभिनिवोधिकादिज्ञानचतुष्टयं क्षायोपशमिकमेव नारकादिभवश्च तदायुःकर्मोद-12 यादिजनितत्वादौदयिकस्तत्कथमिदमवधिज्ञानं तन्निमित्तं भवेत् ?, औदयिकत्वप्रसङ्गात् । नैष दोषः । यतस्तदपि | तत्त्वतः क्षायोपशमिकमेव, परं सोऽपि क्षयोपशमस्तस्मिन्नारकादिभवे सत्यवश्यं भवति, कर्मणां क्षयोपशमादेर्विचि निमित्तापेक्षित्वात् , तदुक्तम्-"उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । दवं खेत्तं कालं भवं च भावं च संपप्प ॥१॥" इति, ततो नारकादिभवस्यावश्यं तत्क्षयोपशमहेतुत्वात् अवधिज्ञानं तनिमित्तमुच्यत इति । यदाह भाष्यकृत्-"ओही खलूबसमिए भावे भणिओ भवो तहोदइए। तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोण्हं ॥१॥ |सोवि हु खओवसमिओ किंतु स एव उ खओवसमलाभो । तम्मि सइ होइवस्सं भन्नइ भवपञ्चओ तो सो॥२॥" १ गाथा ७४९ । २ अवधिः खल्यौपशमिके भावे भणितो भवस्तौदयिके। तस्मात्कथं भवप्रत्ययो वक्तुं युक्तोऽवधियोः ॥१॥ सोऽपि खल्वीपशमिकः किंतु स एव तु क्षयोपशमलाभः । तस्मिन्सति भवत्यवश्यं भण्यते भवप्रत्ययस्तस्मात्सः ॥२॥ ३ पञ्चइओ इति खपुस्तके । धर्म. ५० Jain Education in For Private & Personel Use Only MAjainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy