SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥२९४॥ Jain Education चानिर्देश्यसामान्यमात्रावगमनरूप एकसामयिकः । अवगृहीतशब्दाद्यर्थगत (तासद्भूत) सद्भूतविशेषपरित्यागा ( दाना ) भिमुखं प्रायो मधुरत्वादयः शाङ्खशब्दधम्म अत्र घटन्ते न खरकर्कशनिष्ठुरतादयः शार्ङ्गशब्दधर्माः इति ज्ञानमीहा । अवग्रहानन्तरमीहितस्यार्थस्यावगमो - निश्चयो यथा - ' शाङ्ख एवायं शब्दो न शार्ङ्ग इति' अवायः, अवग्रहादिक्रमेण निचितार्थविषये तदुपयोगादभ्रंशोऽविच्युतिः, तजनितः संस्कारविशेषो वासना, तत्सामर्थ्यादुत्तरकालं पूर्वोपलब्धार्थविषयमिदं तदित्यादि ज्ञानं स्मृतिः, अविच्युतिवासनास्मृतयश्च धरणलक्षणसामान्यान्वर्थयोगाद्धारणेति व्यपदिश्यते । वासनाव्यतिरेकेण चेहादयः सर्वेऽपि कालतोऽन्तर्मुहूर्त्त प्रमाणाः, वासना तु संख्येयवर्षायुषां संख्येय कालमसङ्ख्येयवर्षायुषामसयेय कालमिति ॥ ८२३ ॥ श्रुतज्ञानमभिधित्सुराह - जं पुण तिकालविसयं आगमगंथाणुसारि विन्नाणं । इंदियमणोनिमित्तं तं सुयनाणं जिणा विंति ॥ ८२४ ॥ यत्पुनस्त्रिकालविषयं शब्दार्थालोचन त्रिकालावलम्बि समानपरिणामगोचरत्वात् अस्य च ज्ञानस्य शब्दार्थालोचचनात्मकत्वात्तथाचाह - आगमग्रन्थानुसारि - श्रुतग्रन्थानुसारि शब्दार्थालोचनानुसारीतियावत् विज्ञानं इन्द्रियमनोनिमित्तं तत् श्रुतज्ञानं प्रागभिहितशब्दार्थ जिना ब्रुवते ॥ ८२४ || अवधिज्ञानमाह - For Private & Personal Use Only मतिश्रुत लक्षणे ॥२९४॥ jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy