________________
ततः- आवरणक्षयात् जीवस्य तथाविधं - क्षयानुरूपं ज्ञानं प्रसरति, यथा- पवनदरविगलितैः - खरपवन संपर्कत ईषदपगतैर्घनघनजालैः - अतिनिविडमेघवृन्दैश्चन्द्रस्य चन्द्रिकेति ॥ ८२२ ॥ तदेवं जीवखरूपतज्ज्ञानतदावरणक्षयोपशमाद्यभिहितम्, सांप्रतं यत् प्रागुपन्यस्तमाभिनिवोधिकादिप्रभेदैर्ज्ञानस्य पञ्चकारत्वं तान् भेदान् व्याचिख्यासुराह
जमवग्गहादिरूवं पच्चुत्पन्नत्थगाहगं लोए ।
इंदियमणोनिमित्तं तं आभिणिबोहिगं बेंति ॥ ८२३ ॥
यत् अवग्रहादिरूपम् - अवग्रहेहावायधारणात्मकं प्रत्युत्पन्नार्थग्राहकं - वर्त्तमानार्थग्राहकं प्रायोवृत्तिमाश्रित्य चैवसुच्यते, यतः स्मृतिरतीतविषयैव भवतीति, इन्द्रियमनोनिमित्तं तत्-आभिनिवोधिकज्ञानं प्रागभिहितशब्दार्थ ब्रुवते | तीर्थकरगणधराः । अनेन खमनीषिकाव्युदासमाह । तत्रावग्रहो द्विधा, व्यञ्जनावग्रहः अर्थावग्रहश्च । तत्र व्यज्यतेऽर्थो |ऽनेन प्रदीपेनेव घट इति व्यञ्जनम् - उपकरणेन्द्रियं तेन व्यञ्जनेनोपकरणेन्द्रियेणावग्रहः प्राप्तानां शब्दादिपरिणतद्रव्याणामव्यक्तं ज्ञानमात्रं व्यञ्जनावग्रहः, एष कालतोऽन्तर्मुहूर्त्त प्रमाणः । व्यञ्जनावग्रहचरमसमये शब्दाद्यर्थावग्रहलक्षणोऽर्थावग्रहः । एतच्च श्रोत्रम्राणजिह्वास्पर्शनरूपेन्द्रियचतुष्टयमधिकृत्य वेदितव्यं चक्षुर्मनोविषये तु प्रथमत एकार्थावग्रहः, स
Jain Educationtional
५
For Private & Personal Use Only
www.jainelibrary.org