SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ॥२९३॥ ज्ञानस्य ज्ञानिनाम् - आचार्यादीनां ज्ञानसाधकानां च - पुस्तकपट्टिकादीना, भक्तिपूर्वकं यद्वहुमानम् - आन्तरः प्रीतिविशेषस्तस्माद्ये आसेवनवृद्ध्यादय आदिशब्दात्पाठकाध्यापकभक्तपानाद्युपष्टम्भप्रवचनवत्सलताऽभीक्ष्णज्ञानोपयोगादिपरिग्रहः, अधिगमहेतवो गुणा अधिगमगुणा ज्ञातव्याः, 'मो' निपातः पूरणे ॥ ८२० ॥ अमीषां फलमाह - सुहपरिणामत्तणओ किलिट्ठपरिणामसंचितमणतं । एएहिं भवसत्तो नियमेण खवेइ आवरणं ॥ ८२१ ॥ एतैः - अधिगमगुणैर्भव्य सत्त्वो नियमेन - अवश्यतया क्षपयति- प्रकृष्टप्रकृष्टतरादिरूपक्षयोपशमावस्थीकरोति, निःशेपतो वा अपगमयति आवरणम् - आवारकं ज्ञानस्य कर्म्म, किंविशिष्टमित्याहक्लिष्टपरिणामसंचितं क्रूराध्यवसायोपार्जितं, तदपि च प्रदेशापेक्षया अनन्तम् - अनन्तपरमाण्वात्मकम् । कथं पुनरेतदित्थंभूतमधिगमगुणैः क्षपयतीत्यत्राह - शुभपरिणामत्वतः, अभिहिताधिगमगुणवतो हि परिणामः शुभ एव भवति, अन्यथा तेषामेव तत्त्वतोऽनुपपत्तेरिति ॥ ८२१ ॥ ततः किमित्याह Jain Education International पणदरवियलिएहिं घणघणजालेहिं चंदिम व तओ । चंदस्स पसरइ भिसं जीवस्स तहाविहं नाणं ॥ ८२२ ॥ For Private & Personal Use Only ओघाधि गमोक्षयो. हेतू अधि गमगुणाः ॥२९३॥ lainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy