________________
Jain Education I
तस्य च - आवरणस्य क्षयोपशमतः - उदितस्य कर्म्माशस्य क्षयो निःशेषतोऽपगमोऽनुदितस्य भस्मच्छन्नान्नेरिवानुद्रेकावस्था उपशमः क्षयोपशमस्तस्मात् ज्ञानं जीवस्य भवति, यथा खरपवनविघटितजलदपटलैकदेश चन्द्रस्य चन्द्रिका । 'सो उण इत्यादि' स पुनः - क्षयोपशमो जिनैरेवं प्रज्ञसो, यथा- कोऽपि क्षयोपशमः खभावत एव भवति, कोऽपि | पुनरधिगमगुणैर्वक्ष्यमाणखरूपैरिति ॥ ८१८ ॥ कः पुनः क्षयोपशमः केषां भवतीत्येतद्विभजन्नाह - एगंदियादियाणं ओहेण सहावतो मुणेयो ।
अहिगमतो तु पगिट्ठो सो उण पंचिंदियाणं तु ॥ ८१९ ॥
एकेन्द्रियादीनां स्वस्वभावतः क्षयोपशमो ज्ञातव्यः । कथं पुनर्ज्ञातव्य इत्यत आह-ओघेन - सामान्येन, नतु विशि-ष्टतया । अधिगमतस्तु - पदैकदेशेऽपि पदसमुदायोपचारादधिगमगुणेभ्यः पुनरुपजायमानः क्षयोपशमः प्रकृष्टः, तुशब्दो विशेषणे, पूर्वः सामान्येन अयं तु विशिष्ट इति विशेषयति, स पुनरधिगमजः क्षयोपशमः पञ्चेन्द्रियाणामेव ज्ञातव्यः । तुरेवकारार्थः ॥ ८१९ ॥ अधिगमगुणानेव दर्शयति
नाणस्स णाणिणं णाणसाहगाणं च भत्तिवहुमाणा । सेवणड्डादी अहिगमगुणमो मुणेयवा ॥ ८२० ॥
For Private & Personal Use Only
jainelibrary.org