SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ श्रूयत इति श्रुतं-शब्दः, श्रूयते वाऽनेन अस्मात् अस्मिन् वेति श्रुतं-तदावरणकर्मक्षयोपशमस्तन्निबन्धनं ज्ञानमप्युपचारात् श्रुतं श्रुतं च तत् ज्ञानं चेति समासः । चशब्दस्तु अनयोः खाम्यादिसाम्यापेक्षया तुल्यकक्षतोद्भावनार्थः । खाम्यादिसाम्यं च क्रमप्रयोजनाधिकारे खयमेव वक्ष्यति । एवकारस्त्ववधारणार्थः, परोक्षत्वमनयोरवधारयति-आभिनिबोधिकश्रुतज्ञाने एव परोक्षे इति । अव-अधोऽधोविस्तृतं रूपिवस्तुजातं धीयते-परिच्छिद्यतेऽनेनास्मिन्नस्माद्वेत्यवधिः-तदावरणक्षयोपशमस्त तुकं ज्ञानमप्युपचारादवधिः, यद्वा अवधानमवधिः-रूपिद्रव्यमर्यादया परिच्छेदनम् , अवधिश्चासौ ज्ञानं चेति विशेषणसमासः । चशब्दो वक्ष्यमाणस्थित्यादिसाधापेक्षया खल्वनन्तरोक्तज्ञानद्वयेन सहास्य साधर्म्यप्रदर्शनार्थः। तथा 'मनःपर्यवज्ञान'मिति, परिः-सर्वतो भावे, अवनम् अवः, 'तुदादिभ्यो न का'वित्यधिकारे किती चेति औणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अवः पर्यवः पर्यय इति वा पाठः, तत्र पर्ययणं पर्ययो भावेऽत् (ल)प्रत्ययः, मनसि मनसो वा पर्यवः पर्ययो वा मनःपर्यवः मनःपर्ययो वा, सर्वतस्तत्परिच्छेद इतियावत् । अथवा मनसः पर्यायाः मनःपर्यायाः 'पर्यायाः भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यनर्थान्तरम्' तेषां वा संबन्धि ज्ञानं मनःपर्यायज्ञानम् । तथाशब्दो वक्ष्यमाणच्छद्मस्थखामिसाधाद्यपेक्षया अवधिज्ञानेन सहास्य सारूप्यप्रदर्शनार्थः । केवलज्ञानं चे'ति, केवलम्-असहाय, मत्यादिज्ञाननिरपेक्षत्वात् , शुद्धं वा केवलं, तदावरणमलकलङ्करहितत्वात् , सकलं वा केवलं, प्रथमत एवाशेपतदावरणविगमतः संपूर्णस्योत्पत्तेः, असाधारणं Jain Education a l For Private & Personal Use Only Mainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy