SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहणीवृत्तिः ज्ञानस्य स्वरूपं भेदाश्च ॥२९॥ पंचविहावरणखयोवसमादिनिबंधणं इहं नाणं । पंचविहं चिय भणियं धीरेहि अणंतनाणीहिं ॥ ८१५ ॥ पञ्चविधं यदावरणं मतिज्ञानावरणादि तस्य यः क्षयोपशम इत्यादिशब्दात् क्षयश्च तन्निवन्धनमिह ज्ञानं पञ्चषिधमेव, तत्कारणस्थावरणक्षयोपशमादेरेतावद्भेदोपेतत्वात् , कारणभेदनिबन्धनत्वाच कार्यभेदस्य, भणितं-प्रतिपादित धीरैरैनन्तज्ञानिभिः-तीर्थकरैः ॥ ८१५॥ तदेव पंचविधत्वं ज्ञानस्य दर्शयति आभिणिबोहियनाणं सुयणाणं चेव ओहिणाणं च । तह मणपजवनाणं केवलनाणं च पंचमयं ॥ ८१६ ॥ अर्थाभिमुखो नियतो वोधोऽभिनिबोधः अभिनिबोध एवाभिनिबोधिकम् , अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमात् “विनयादिभ्य इकणि" त्यनेन खार्थे इकण्प्रत्ययो यथा-विनय एव वैनयिकमिति । "अतिवर्तन्ते खार्थे प्रत्य- यकाः प्रकृतिलिङ्गवचनानीति" वचनात्त्वत्र नपुंसकलिङ्गता। अभिनिबुध्यते वा अनेनास्मात् अस्मिन्वा अभिनिबोधःतदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिवोधिकम् आभिनिबोधिकं च तत् ज्ञानं चेति विशेषणसमासः। तथा ॥२९१॥ Jain Educaton International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy