________________
मन्यते जगतस्त्रिकालावस्थामिति मुनिः-तपखी तद्भावो मौनम्-अविकलं मुनिवृत्तं, यन्मौनं तत्सम्यक्त्वं यत्सम्यक्-यत् सम्यक्त्वं तदिह भवति मौनं ज्ञातव्यमिति । तदुक्तमाचाराङ्गे-जं मोणंति पासहा तं सम्मति पासहा जं सम्मति पासहा तं मोणंति पासहा" इत्यादि । एतचैवमुच्यते निश्चयतो-निश्चयमतेन । “जो जहवायं न कुणइ मिच्छादिट्टी तओहु को अन्नो? । बढेइ य मिच्छत्तं परस्स संकं जणेमाणो॥१॥" इत्यादिवचनप्रामाण्यात्। इतरस्य तुव्यवहारनयस्य सम्यक्त्वमास्तामुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किंतु सम्यक्त्वहेतुरपि-अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात्सम्यक्त्वमभिप्रेतं, तदपि हि पारंपर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति । व्यवहारनयमतमपि |च प्रमाणं, तबलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात् , तदुक्तम्-"जइ जिणमयं पवजह ता मा ववहारनिच्छए (नयमयं) मुयह । ववहारनउच्छेए तित्थुच्छेदो जओऽवस्सं ॥१॥” इति ॥८१४ ॥ तदेवं सप्रपञ्चं सम्यक्त्वं व्याख्याय सांप्रतं ज्ञानं व्याचिख्यासुराह
१ यत् मौनमिति पश्यत तत् सम्यक्त्वमिति पश्यत, यत्सम्यक्त्वमिति पश्यत तद् मौनमिति पश्यत । २ यो यथावादं न करोति | मिथ्यादृष्टिस्ततः खलु कोऽन्यः । वर्धयति मिथ्यात्वं परस्य शङ्कां जनयन् ॥ ३ यदि जिनमतं प्रपद्यध्वे तद् मा व्यवहारनिश्चयो मुंचत । व्यवहारनयोच्छेदे तीथोंच्छेदो यतोऽवश्यम् ॥ १॥
Jain Eduetan
For Private Personal Use Only
Imlinelibrary.org