SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार परिचयः ॥१२॥ "वीराओ वयरो वासाण पणसए दससएण हरिभद्दो । तेरसहिं बप्पभट्टी अट्ठहिं पणयाल वलहिखओ॥१॥" -इत्यादिषु तथादर्शनात् । ये तु चत्वारिंशदधिकचतुर्दशशतसंख्यालेखकास्तेषामयमभिप्रायः संभाव्यते-"संसारदावानल” इत्यादिपद्यचतुष्कात्मिका स्तुतिः हरिभद्रसूरीणामन्त्या कृतिः, सा च चतुर्भिः पद्यैश्चतुर्णा ग्रन्थानां संख्यामापूरयति, तथाकृते च हारिभद्रीयग्रन्थानां चतुश्चत्वारिंशदभ्यधिकचतुर्दशशतरूपा संख्या संपद्यते इति हि प्रसिद्धिः । एतच्च चतुष्पद्यात्मके स्तुतिमात्रे ग्रन्थव्यपदेश एव न युज्यते तिष्ठतु चतुःसंख्यापूरकत्वमिति विभाव्य राजशेखरसूरिभिः पूर्वोक्ता १४४० रूपैवैतेषां प्रकरणसंख्याभिहिता । एतदर्थमेव गगनमार्गे शिक्षार्थमाकर्षणमपि तावत्संख्याकानामेव ताथागतानामुदीरितमिति । तृतीयपक्षकारास्तु विशिष्य यथाश्रूयमाणसंख्याप्राहिण इति सुप्रतीतमेव । तमेवं विपुलसंख्याकं ग्रन्थरत्नप्रकर विरचय्य एतैः सूरिवरैः सुतरामेवोन्नतिं प्रापितोऽयं जैनशास्त्ररत्नाकरः, परमुपकृताश्च जैनास्तदितरे च विद्वांस इति मुहुर्मुहुरावेदनीयं स्यात् । अथेयतां ग्रन्थरत्नानां किमद्यावधि विद्यते निरुपहता सत्ता ! इति प्रश्नस्तु सत्यमेवास्महृदये कण्टकायते ! । हन्त ! नैतावत्संख्यान ४ प्रन्थानद्य द्रष्टुं लभेमहि, नवा सर्वेषां नामान्यपि निशमयितुमीशाते श्रुती !, तथापि येऽद्ययावद् दृष्टाः श्रुतिपथं वाऽऽयातास्त इह नामग्राहमुदिशामः, तथाहि १-"वीराद् वज्रो वर्षाणां पञ्चशते दशशतेन हरिभद्रः। त्रयोदशभिर्बप्पमहिः अष्टाभिः पञ्चचवारिंशता वलभिक्षयः ॥१॥" ॥१२॥ Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy