SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ तृतीयमतनिर्देशकाः पुनरेते परिगण्यन्ते(१) श्रीरत्नशेखरसूरयः श्राद्धप्रतिक्रमणार्थदीपिकाख्यटीकायाम्-" १४४४ प्रकरणकृत् श्रीहरिभद्रसूरयोप्याहुर्ललितविस्तरायाम् " (२) अञ्चलगच्छपट्टावल्याम्-"२९ श्रीहरिभद्रसूरिः १४४४ प्रकरणकर्ता। (३) श्रीविजयलक्ष्मीसूरिरुपदेशप्रासादे तृतीयस्तम्भे-"चतुश्चत्त्वारिंशदधिकचतुर्दशशतप्रन्थान हरिभद्रसूरिः प्रायश्चित्तपदे चकार" । (४) श्रीक्षमाकल्याणकोपाध्यायः खरतरगच्छपट्टावल्याम्-“१४४४ पूजापञ्चाशकादिप्रकरणानि कृतानि" इति । तदेवमत्र मतत्रयं साधारणतयोपदर्शितम् । विशेषगवेषणायां तु सर्वेप्येते निदार्शतग्रन्थकारा एकमेव मतमभ्युपेताः । तथाहि-ये चतुर्दशशतप्रकरणनिर्देशनपरास्ते गौरवपरिहारेण सामान्यतया बृहत्संख्यामेवादृतवन्तः, निर्दोषश्चार्य व्यवहारः । १-अस्या विनिर्माणकालः प्रान्तभागे एवं निरदिक्षद् ग्रन्थकर्ता "एषां श्रीसुगुरूणां प्रसादतोऽब्दे षडकविश्वमिते । श्रीरत्नशेखरगणिर्विवृतिमिमामकृत कृतितुष्ट्यै ॥ ११॥ २-पण्डितभाण्डारकरमहाशयेन स्वरचितकार्यविवरणपुस्तके समुदलेखि । ३-अस्य रचनाकालः क; ग्रन्थप्रान्ते_ "गुण-गति-वसु-शशिवर्षे कार्तिकमासे समुज्वले पक्षे । गुरुपूर्णायां समजनि सफलो यत्नः सुपञ्चम्याम् ॥ ६॥ इति पद्येन १८४३ रूपः प्रत्यपादि । ४-अस्या निर्माणं त्रिचत्वारिंशदधिकाष्टादशशते जातमित्येतत्प्रान्तभागतोऽवबुध्यते । Jain Education For Private & Personel Use Only WMr.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy