________________
ग्रन्थकार
॥ ११ ॥
( ११ ) श्रीमणिभद्रः षड्दर्शनसमुच्चय लघुटीकीयाम् — “ इह हि श्रीजिनशासनप्रभावनाविर्भावकप्रभोदय भूरियशश्चतुर्दशशतप्रकरणकरणोपकृतजिनधर्मो भगवान् हरिभद्रसूरिः" ।
( १२ ) श्रीहर्षनन्दनगणिर्मध्याह्न व्याख्यानपद्धती —
" पालितो वृद्धवादी कविकुलतिलकः सिद्धसेनो दिवाकृद् विद्यासिद्धस्तथार्यः खपुटगुरुरुमास्वातिको मल्लवादी । सूरिः श्रीहारिभद्रः स्वपरसमयविद् बप्पभट्टिः प्रसिद्धः सिद्धर्षिर्देवसूरिः कुमरनृपनतो हेमसूरिश्व जीयात् ॥ १ ॥
— इत्येतद् महर्षिकुलककाव्यं विवृण्वन् हरिभद्रपदव्याख्यायाम् - "हरिभद्रः श्रीवृद्धगच्छे चतुर्दशशतप्रन्थप्रन्थनतत्परः" इत्युद लिखत् । अथ द्वितीयपक्षं राजशेखरसूरयः प्रबन्धकोशे ऐवमुद लिखन्- “१४४० प्रन्थाः प्रायश्चित्तपदे कृताः" इति ।
Jain Education International
१ - अस्या निर्माणसमयोऽयावधि न निर्णीतः । २ - एतद्रचनाकालो प्रन्थकारेणैवं प्रत्यपादि-
“त्रिक - सप्त-पडेकाब्दे अक्षततृतीयादिने । ग्रन्थोऽयं पूर्णतां प्राप्तः श्रीअणहिलपत्तने ॥ १ ॥” ३ - अस्य निबन्धनकालस्तन्निर्मात्रा तदन्ते इत्थमादिष्टः
“ शर-गगन - मनुमिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निष्पन्नमिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ १ ॥”
For Private & Personal Use Only
परिचयः
॥ ११ ॥
www.jainelibrary.org