________________
Jain Education
( ९ ) श्रीगुणरत्नसूरयः तर्करहस्यदीपिकानायां षड्दर्शनसमुच्चयबृहद्वृत्तौ - "चतुर्दशशतसंख्यशास्त्ररचनाजनितजगज्जन्तुमहोपकारः
श्रीहरिभद्रसूरिः” ।
(१०) कुलमण्डनसूरयो विचारामृतसंग्रहे – “धर्मसंग्रहणी - अनेकान्तजयपताका - पञ्चवस्तुकोपदेशपद - लग्नशुद्धि - लोकतत्त्वनिर्णययोगबिन्दु-धर्मबिन्दु–पञ्चाशक - पोडशका - ऽष्टकादिप्रकरणानि चतुर्दशशतमितानि श्रीहरिभद्रसूरिभिर्विरचितानि” ।
१—–साक्षादनुपलब्धोऽप्यस्या ग्रन्थनसमयः क्रियारत्नसमुच्चयप्रशस्तिगतेनैतत्कर्तृसमयप्रसाधकेनाऽमुना पद्येन पञ्चदशशतकरूप एव । तथाहि“ काले पड्-रस- पूर्ववत्सरमिते श्रीविक्रमार्काद् गते गुर्वादेशवशाद् विमृश्य च सदा स्वान्योपकारं परम् । ग्रन्थं श्रीगुणरत्नसूरिरतनोत् प्रज्ञाविहीनोऽप्यनुं निर्हेतूपकृतिप्रधानजननैः शोध्यस्त्वयं धीधनैः ॥ ६३ ॥
२ - एतन्निर्माणकालस्तु ग्रन्थकृतैवमभिहितः --
“ निःसीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः सूरि श्रीगुरुदेवसुन्दरवरास्तेषां विनेयाणुकः । सूरि : श्री कुलमण्डनोऽमृतमिव श्रीआगमाम्भोनिधेश्चक्रे चारुविचारसंग्रहमिमं रामान्धिशकाब्दके ॥ २ ॥”
For Private & Personal Use Only
w.jainelibrary.org