________________
परिचयः
ग्रन्धकार
"यावद ग्रन्थरथाश्चतुर्दशशती श्रीहारिभद्रा इमे वर्तन्ते किल पारियात्रिकतया सिध्यध्वयानेऽङ्गिनाम् । तावत् पुष्परथः स एष समरादित्यस्य मन्निर्मितः संक्षेपस्तदनुप्लवः प्रचरतु क्रीडाकृते धीमताम् ॥ ६९॥" (७) श्रीमुनिदेवसूरयः शान्तिनाथचरित्रमहाकाव्ये"चतुर्दशशतग्रन्थग्रन्थनायासलालसम् । हारिभद्रं मनो हारिभद्रं भद्रं करोतु नः॥४॥" (८) प्रभाचन्द्रसूरयः प्रभावकचरित्रे
पुनरिह च शतोनमुग्रधीमान् प्रकरणसार्धसहस्रमेष चके।
जिनसमयवरोपदेशरम्यं ध्रुवमिति संततिमेष तां च मेने ॥२०५॥ १-अस्यापि रचनासमयः श्रीप्रद्युम्नसूरिसत्तासमयरूप एव, तैरेवास्य संशोधितत्वात् । तथा चोक्तं ग्रन्थकारण
"काव्ये श्रीमुनिदेवमूरिकविना श्रीशान्तिवृत्ते कृते श्रीप्रद्युम्नमुनीन्दुना शुचिरुचिः सर्गोऽगमत् सप्तमः॥" २-ऐतिहासिकपुरुषाणां चरितैर्निबद्धं काव्यमिदं प्रभाचन्द्रसूरिभिः १३३४ प्रमितविक्रमसंवत्सरे व्यरचीति तत्प्रशस्तिपद्यमेवेदं निर्दिशति
"वेदा-ऽनल-शिखि-शशधरवर्षे चैत्रस्य धवलसप्तम्याम् । शुक्रे पुनर्वसुदिने संपूर्ण पूर्वऋषिचरितम् ॥ २२ ॥
Jain Education
For Private & Personal Use Only
imaw.jainelibrary.org