________________
धर्मसंग्रहणीवृत्तिः
॥२८९॥
कषायाषिष्टोऽन्तर्मुहूर्त्तमात्रेणापि यत् वभाति तदनेकाभिरपि सागरोपमकोटी भिर्दुःखेन वेदयते इति, ततः किमि - त्याह- 'अवरद्धे इत्यादि' अपराध्यति स्मेति अपराद्धः - प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमतः-उपशमेन हेतुना सर्वकालमपि - यावत्सम्यक्त्व परिणामोऽवतिष्ठत इति भावः ॥ ८०८ ॥ तथा,
नरविबुहेसरसोक्खं दुक्खं चिय भावतो तु मन्नतो । संवेगतो न मोक्खं मोत्तूणं किंचि पत्थेइ ॥ ८०९ ॥
नरविबुधेश्वरसौख्यं - चक्रवत्तद्रसौख्यं कर्मजनिततया सावसानत्वेन दुःखनिबन्धनत्वात् दुःखमेव भावतः -परमार्थतो मन्यमानः संवेगतः - संवेगेन हेतुना, न मोक्षं- स्वाभाविकं जीवरूपमपर्यवसानं मुक्त्वा किंचिदन्यत् प्रार्थयते ।। ८०९ ॥
Jain Education International
नारयतिरियनरामरभवेसु निवेदतो वसति दुक्खं । अकयपरलोग मग्गो ममत्तविसवेगरहितोवि ॥ ८१० ॥
नारकतिर्यग्शरामरभवेषु सर्वेष्वेव निर्वेदतो- निर्वेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याह-अकृत पर
For Private & Personal Use Only
सम्यक्त्वस्यउपशमादिलि
ङ्गानि
॥ २८९ ॥
www.jainelibrary.org