________________
धर्म. ४९
Jain Education In
र्वेदानुकम्पास्तिक्यपरिग्रहः, एभिरुपशमादिभिरुपायैर्वाद्यवस्तुविषयत्वात् प्रशस्तयोगः - शोभनव्यापाररूपैर्लक्ष्यतेअधिगम्यते ॥ ८०६ ॥ तथा चाह-
एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ॥ ८०७ ॥
अत्र-सम्यक्त्वे सति परिणामः - अध्यवसायः, खलुरवधारणे, शुभ एव, तुरेवकारर्थः, जीवस्य भवति विज्ञेयो नत्वशुभः । अथवा किमत्र चित्रमिति प्रतिवस्तूपमामाह - 'किमित्यादि' किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति, नैव भवतीति भावार्थः । एवमिहापि मलकलङ्कस्थानीयं प्रभूतं क्लिष्टं कर्म्म यदा क्षीणं भवति जीवस्य तदा नैव ध्यामलत्वतुल्यो ऽशुभ परिणामो भवतीति ॥ ८०७ ॥ प्रशमादीनां वाह्यप्रशस्तयोगत्वमुपदर्शयति
पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति । अरविन कुप्पइ उवसमतो सबकालंपि ॥ ८०८ ॥
प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्म्मणां कायनिबन्धनानां विपाकमशुभं यथा
For Private & Personal Use Only
w.jainelibrary.org