________________
| संग्रहणि
॥२८७॥
त्वसम्यक्त्वभेदभिन्ने, किंविशिष्टे इत्याह-'भवनिदानभूते' भवः-संसारस्तत्कारणभूते, निष्प्रत्यपायम्-अतीचाररूपापायरहितम् अतुलम्-अनन्यसदृशमासन्नतया मोक्षहेतुत्वात् यत् सम्यक्त्वं भवति तत् क्षायिकमित्युच्यते । मिथ्यात्वादिक्षयेण निवृत्तं क्षायिकम् ॥ ८०१॥ सांप्रतमवसरप्राप्त कारकादिसम्यक्त्वमभिधित्सुराह
जं जह भणियं तं तह करेइ सति जम्मि कारगं तं तु।
रोयगसंमत्तं पुण रुइमेत्तकरं मुणेयत्वं ॥ ८०२॥ यत् अनुष्ठानं यथा सूत्रे भणितं तत् यस्मिन् सम्यक्त्वे परमविशुद्धिरूपे सति तथा करोति तत् कारकमित्युच्यते, कारयतीति कारकमिति । रोचकसम्यक्त्वं पुनः रुचिमात्रकरं ज्ञातव्यं, रोचयति-रुचिं कारयति तथाविधविशुद्धिभावाद्विहितानुष्ठान इति रोचकम् ॥ ८८२॥
सयमिह मिच्छट्टिी धम्मकहाईहिं दीवति परस्स ।
सम्ममिणं जेण दीवग कारणफलभावतो नेयं ॥ ८०३ ॥ यः खयमिह मिथ्याडष्टिरभव्यो वा कश्चित् अङ्गारमईकवत् अथ च धर्मकथादिभिर्धर्मकथया आदिशब्दान्मातृस्थानानुष्ठानेन अतिशयेन केनचित् दीपयति-प्रकाशयति परस्य सम्यक्त्वं येन परिणामविशेषेण स परिणामविशेषः
॥२८७॥
Jain Education
2
For Private Personel Use Only
jainelibrary ang