________________
इय मिच्छस्स अणुदए उवसमसम्म लभइ जीवो ॥ ८०० ॥ ऊपरं नाम यत्र तृणादेरसंभवस्तद्रूपं देशं, दग्धं वा पूर्वमेवाग्निना प्राप्य वनदवो यथा विध्यायति तत्र दाह्याभावात् , इतिः-एवं तथाविधपरिणामवशान्मिथ्यात्वस्थानुदये सत्यौपशमिकं सम्यक्त्वं लभते जीव इति । अत्र वनदवकल्पं मिथ्यात्वं ऊपरादिदेशस्थानीयं तथाविधपरिणामकण्डकमिति । नन्वौपशमिकसम्यक्त्वस्य क्षायोपशमिकसम्यक्त्वात्को विशेषः, उभयत्रापि ह्यविशेषेणोदितं मिथ्यात्वं क्षीणमनुदितं चोपशान्तमिति, उच्यते-अस्ति विशेषः, क्षायोपशमिके हि सम्यक्त्वे मिथ्यात्वस्य प्रदेशानुभवोऽस्ति नत्योपशमिके सम्यक्त्वे इति । अन्ये तु व्याचक्षतेश्रेणिमध्यवर्त्तिन्येवौपशमिके सम्यक्त्वे प्रदेशानुभयो नास्ति नतु द्वितीये, तथापि तत्र सम्यक्त्वाण्वनुभवाभाव एव विशेष इति ॥ ८००॥ इदानीं क्रमप्राप्त क्षायिकसम्यक्त्वमाह
खीणे दंसणमोहे तिविहम्मिवि भवणिदाणभूयम्मि ।
निप्पच्चवातमतुलं सम्मत्तं खाइगं होति ॥ ८०१ ॥ क्षीणे-क्षपक श्रेणिमनुप्रविष्टस्य सत एकान्तेनैव प्रलयमुपगते दर्शनमोहनीये त्रिविधेऽपि मिथ्यात्वसम्यग्मिथ्या
Jnin Education
For Private
Personel Use Only
telibrary.org