________________
धर्म
॥ २८६ ॥
Jain Education
तस्य दलिकस्य विपाकतो वेद्यमानत्वात् । यस्तु तथाविधमन्दपरिणामोपेतत्वादपूर्वकरणमुपारूढोऽपि सन् मिथ्यात्वस्य त्रिपुञ्जीकरणासमर्थः सोऽनिवर्त्तिकरणसामर्थ्यादुदीर्णस्य मिथ्यात्वस्यानवयवशः क्षयात् अनुदीर्णस्य सर्वथा विष्कम्भतोदयत्वात् ऊपरदेशकल्पं मिध्यात्वविवरमासाद्य औपशमिकमेव सम्यक्त्वमधिगच्छतीत्यागमोपनिषत् । तत इहोक्तं 'जो वा अकयतिपुंजीत्यादि ॥ ७९८ ॥ अमुमेवार्थ स्पष्टयन्नाह -
खीणम्मि उदिन्नम्म उ अणुदिजंते य सेसमिच्छत्ते । अंतोमुहुत्तमेत्तं उवसमसम्मं लभइ जीवो ॥ ७९९ ॥
क्षीण एवदीर्णे-उदयप्राप्ते अनुदीर्यमाणे च मन्दपरिणामोपपन्नरूपतया उदयमगच्छति च शेषमिध्यात्वे- अक्षीणमिथ्यात्वे किम् ? - औपशमिकं सम्यक्त्वं लभते जीवः । कियन्तं कालं यावदित्याह - अन्तर्मुहूर्त्तमात्रं, तत ऊर्द्धमवश्यमवस्थानान्तराभावान्मिथ्यात्वमेव शरणीकरोति, तदुक्तम्- "आलंबणमलहंती जह सहाणं न मुंचए इलिया । एवं अकयतिपुंजो मिच्छं चिय उवसमी एइ ॥ १ ॥ त्ति” ॥ ७९९ ॥ एतदेव सम्यक्त्वं दृष्टान्तेन स्पष्टतरमभिधित्सुराहऊसरदेसं दढिल्लयं च विज्झाइ वणदवो पप्प |
१ आलम्बनमलभमाना यथा स्वस्थानं न मुञ्चतीलिका । एवमकृतत्रिपुञ्जो मिध्यात्वमेवोपशमी एतीति ॥
ional
For Private & Personal Use Only
संग्रहणि
॥२८६॥
www.jainelibrary.org