________________
परिणामरूवं विति"वचनप्रमाण्यात्, ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकं सम्यक्त्वमुच्यत इति विरुध्यते, मिथ्यात्वदलिकस्यैव सम्यक्त्वरूपतापन्नस्य वेद्यमानत्वात् , नैष दोषः, तथाविधपरिणामहेतुतया तेषामेव पुद्गलानां सम्यक्त्वोपचारात् ॥ ७९७ ॥ अधुनोद्देशक्रमानुसरणत औपशमिकं सम्यक्त्वमाह
उवसमियसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।
जो वा अकयतिपुंजी अखवियमिच्छो लभइ सम्मं ॥ ७९८ ।। उपशमश्रेणिगतस्य-औपशमिकश्रेणिमनुप्रविष्टस्य सतो भवत्यौपशमिकमेव सम्यक्त्वम् । तुरवधारणे । अनन्तानुबन्धिनां दर्शनमोहनीयस्य चोपशमेन निवृत्तमौपशमिकम् । 'जीवेत्यादि' यो वाऽकृतत्रिपुञ्जः-तथाविधमन्दपरिणामोपेतत्वादनिर्वर्तितसम्यक्त्वमिथ्यात्वोभयरूपपुजत्रयोऽक्षपितमिथ्यात्वः-अक्षीणमिथ्यात्वः, क्षायिकसम्यग्दृष्टिव्यवच्छेदार्थ चैतद्विशेषणं, लभते-प्राप्नोति यत्सम्यक्त्वं तदोपशमिकमिति । इह हि कश्चिजन्तुस्तथाविधतीव्रपरिणामोपेतत्त्वेनापूर्वकरणमुपारूढः सन् मिथ्यात्वं त्रिपुञ्जीकरोति । “अप्पुण तिपुंज मिच्छत्तं कुणइ कोइवोवमया" इतिवचनात् । ततः सोऽनिवर्तिकरणसामर्थ्यात्सम्यक्त्वमुपनयन् क्षायोपशमिकमेव सम्यक्त्वमुपयाति, मिश्रीभावपरिण१ अपूर्वेण त्रिपुजं मिथ्यात्वं करोति कोद्रवोपमया ।
मनम
in Education
na
For Private & Personel Use Only
www.jainelibrary.org