SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ २८५ ॥ Jain Education In मिच्छत्तं जमुदिन्नं तं खीणं अणुदियं च उवसंतं । मीसीभावपरिणतं वेदिजंतं खओवसमं ॥ ७९७ ॥ मिथ्यात्वं - मिथ्यात्वमोहनीयं कर्म्म यत् उदीर्णम् - उद्भूतशक्तिकमुदयावलिकाप्रविष्टमितियावत् तत् क्षीणं-प्रलयमुपगतम्, अनुदितं च-अनुदीर्ण च उपशान्तं, उपशान्तं नाम विष्कम्भितोदयमपनीतमिध्यात्वस्वभावं च तत्र विष्कम्भितोदयं भस्मच्छन्नाग्निरिवानुद्रिक्तावस्थम् अपनीतमिध्यात्वस्वभावं - मदनकोद्रवोदाहरणेनापादितसम्यक्त्वस्वभावम् । ननु यत् विष्कम्भितोदयं मिथ्यात्वं तस्यानुदीर्णता युक्ता, विपाकेन वेदनाभावात्, यत् पुनः सम्यक्त्वरूपं तद्विपाकेन वेद्यत एवेति कथं तस्यानुदीर्णता युज्यत इति १, सत्यमेतत्, किंतु तस्यापि सम्यक्त्वरूपस्यापनीतमिध्यात्वस्वभावतया मिथ्यात्वरूपेण वेदनाऽभावादुपचारेणानुदीर्णत्वमुच्यत इत्यदोषः । यद्वा चशब्दस्य व्यवहितः प्रयोगः, ततो यन्मिथ्यात्वमुदीर्णं तत् क्षीणं यत् पुनरनुदीर्णं तत् किंचित् उपशान्तं च, उपशान्तं नाम सम्यक्त्व| रूपेण परिणतं, तदेवं मिश्रीभावपरिणतं - क्षयोपशमखभावमापन्नं वेद्यमानम् - अनुभूयमानं मिध्यात्वं प्रदेशानुभवनेन सम्यक्त्वं विपाकेन क्षायोपशमिकं सम्यक्त्वमुच्यते, नन्वात्मपरिणामरूपं सम्यक्त्वम् “खओवसमादिभेयं सुहाय १ तदेवेति खपुस्तके | २ तञ्चात्मपरिणामेति खपुस्तकपाठः । ३ क्षयोपशमादिभेदं शुभात्मपरिणामरूपं तु । For Private & Personal Use Only संग्रहणिः. ॥ २८५॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy