SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte रूपं समतिगच्छतः - समतिक्रामतोऽपूर्वम् - अपूर्व नामकं द्वितीयं करणं भवति । अनिवर्त्तिकरणं पुनः 'सम्यक्त्व पुरस्कृते' सम्यक्त्वं पुरस्कृतम् - अभिमुखीकृतं येन तस्मिन् सम्यक्त्वाभिमुखे इतियावत् तस्मिन् जीवे भवतीति ॥ ७९५ ॥ तदेवं करणवक्तव्यतामभिधाय सांप्रतं सम्यक्त्ववक्तव्यतामभिधातुकाम आह संमत्तंपि यतिविहं खवो (ओ) वसमियं तहोवसमियं च । खइयं च कारयादि य (व) पन्नत्तं वीयरागेहिं ॥ ७९६ ॥ सम्यक् शब्दः प्रशंसायामविरोधे वा, सम्यक् - जीवस्तस्य भावः सम्यक्त्वं प्रशस्तो मोक्षाविरोधी वा जीवस्य खभा | वविशेष इतियावत् । तदपि त्रिविधं - त्रिप्रकारम्, आस्तामनन्तरोक्तं करणं त्रिविधमित्यपिशब्दार्थः । चशब्दः स्वगतानेकभेदसूचकः । उक्तं च- "तं पंचहा सम्मं - उवसमं सासाणं खयसमजं वेयगं खयगमिति" । त्रैविध्यमेव दर्शयति- क्षायोपशमिकं तथा औपशमिकं क्षायिकं चेति । कारकादि वेति वाशब्दस्त्रैविध्यस्य प्रकारान्तरतासूचनार्थः । कारकमादिशब्दात् रोचकं व्यञ्जकं च प्रज्ञतं वीतरागैः ॥ ७९६ ॥ तत्र क्षायोपशमिकं तावदभिधित्सुराह १ तत् पञ्चधा सम्यक्त्वम् — औपशमिकं सास्वादनं क्षयशमजं वेदकं क्षायिकमिति । For Private & Personal Use Only ainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy