SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ॥२८४॥ इतरेसिं पढम चिय भण्णइ करणं तु परिणामो॥ ७९४ ॥ करणं-वक्ष्यमाणस्वरूपं, तच त्रिधा-यथाप्रवृत्तकरणमपूर्वकरणमनिवृत्तिकरणं च । तत्र यथा-एवमेव विशिष्टनि-12 मित्तमन्तरेणेतियावत् प्रवृत्तं यथाप्रवृत्तं सांसिद्धिकमिति भावार्थः । तथा अप्राप्तपूर्वमपूर्व, तथा निवर्तनशीलं निवति न निवर्ति अनिवर्ति तस्मिन् सति नियमेन सम्यग्दर्शनलाभात् । एतच्च करणत्रितयं भव्यानामेव, एवशब्दो भिन्नक्रमः, इतरेषामभव्यानां पुनः करणं प्रथममेव भवति न वितरे द्वे । तथा चोक्तम्-"एतत्रिधापि भव्याना मन्येषामाद्यमेव हि" । इति । किंखरूपं पुनरिदं करणं यदित्थं विभिद्यत इत्याह-'भण्णइ करणं तु परिणामो 8 तुः पुनरर्थे । करणं पुनर्भण्यते तीर्थकरगणधरैः परिणामो-जीवस्याध्यवसायविशेषः । तदुक्तम्-"करणं परिणामोऽत्र सत्त्वानामिति"॥ ७९४ ॥ अथ कतमत् करणं क भवतीत्यत आह जा गंठी ता पढमं गंठिं समइच्छतो अपुत्वं तु । ___ अणियहीकरणं पुण संमत्तपुरक्खडे जीवे ॥ ७९५ ॥ इहोत्कृष्टां स्थितिमारभ्य यावत् ग्रन्थिदेशावाप्तिस्तावत्प्रथमं करणं यथाप्रवृत्तिनामकं भवति । ग्रन्थिं तु पूर्वोक्तख१ विभज्यत इति क पुस्तके । ॥२८४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy