________________
INNOTES
इह दंसणादिकिरिया दुलहा पायं सविग्धा य ॥ ७९२ ॥ तथा इह-सुदीर्घकर्मस्थितिक्षपणे या क्रिया सा मृद्वी-अत्यन्तसुकरा. भवति यथाप्रवृत्तकरणादिमात्रसामग्र्यपेक्षणात्, या तु मोक्षसाधने-मोक्षसिद्धिवेलायां सा गुर्वी-अत्यन्तदुष्करा भवति, सकलदर्शनलाभादिसामग्रीसन्निधानापेक्षणात् । तथा दुर्लभा न सा येन केनचिदवाप्तुं शक्यते, अवाप्तापि च प्रायः सविना भवति, ततोऽवश्यं दर्शनादिकं तत्सामग्रीभूतं यथावस्थितं प्रार्थ्यत इति ॥ ७९२ ॥ अत्रैव परिहारान्तरमाह
अहव जओ चिय सुबहुं खवितं तो णिग्गुणेण सेसंपि ।
स खवेइ लभइ य जओ संमत्तसुयादिगुणलाभं ॥ ७९३ ॥ अथवा यत एव सुबहु कर्म तेन जीवेन क्षपितमत एव स जीवो निर्गुण एव सन् शेषमपि कर्म क्षपयति, यस्मात्कर्मविवरसामर्थ्यावश्यं स लभत एव चोऽवधारणे सम्यक्त्वश्रुतादिलाभमिति ॥७९३॥ तं च सम्यक्त्वश्रुतादिगुणलाभं करणेनैव लभते इति करणवक्तव्यतामाह
करणं अहापवत्तं अपुवमणियट्टिमेव भवाणं ।
ONG-OCOSCHOTE
JainEducation
For Private Personal use only
jainelibrary.org