________________
अत ऊर्दू प्रकृतं वक्ष्यामि । तदेवाह-'गंठीत्यादि' नियमात्-नियमेन ग्रन्थिभेदे सति दर्शनं-सम्यक्त्वं भवति नान्यथा, न तु ग्रन्थिभेदे सति नियमाद्दर्शनमिति व्याख्येयं, अस्यार्थस्य 'भिन्नम्मि तम्मि लाभो' इत्यादिना प्रागेवाभिहितत्वात् , ग्रन्थिभेदस्य च एवमप्राधान्यमुक्तं स्यात् , तथा च सति नोत्तरो ग्रन्थः सुश्लिष्टो भवेदिति । स च ग्रन्थिभेदः परिश्रमचित्तविघातादिभिर्विघ्नैरुत्पद्यमानरतिशयेन दुर्लभ एव ॥ ७८८ ॥ तदेव भावयति
सो तत्थ परिस्सम्मति घोरमहासमरनिग्गतादिव ।
विजाव सिद्धिकाले जह बहुविग्घा तहा सोवि ॥ ७८९ ॥ स-जीवस्तत्र-प्रन्थिदेशे प्राप्तः सन् परिश्राम्यति । किंवदित्याह-'घोरेत्यादि' घोरमहासमरनिर्गतादिवत्-अनेकभटकोटिविनिपातलब्धजयपताकमहारौद्रसमरमध्यविनिर्गतपुरुषादिवत् , आदिशब्दात् भुजमात्रसमुत्तीर्णमहासमुद्रपुरुषादिपरिग्रहः । तदेवं परिश्रमरूपं विघ्नमभिधाय चित्तविघातादिविघ्नानाह-यथा विद्या सिद्धिकाले-सियवसरे चित्तविघातादिबहुविना भवन्ति(ति) तथा सोऽपि ग्रन्थिभेदो द्रष्टव्यः॥७८९ ॥ पर आह
कम्मट्टिती सुदीहा खविता जइ णिग्गुणेण सेसंपि । १ एतदेव ख.।
Jain Educationalon
For Private Personal Use Only
Tarainelibrary.org