SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ धर्म ॥२८२॥ Jain Education दिकं प्रकृतमनन्तरोक्तमन्तरेणोपपद्यते इति सम्यक्त्वाद्यन्यथानुपपत्त्या प्रकृतमवश्यमेष्टव्यं न चैतत् प्रकृतमिष्टं यथो||दितदैवपुरुषकारखरूपानभ्युपगमे युज्यते, ततो दृष्टेष्टबाधा भीतितो यथोदितखरूपावेव दैवपुरुषकारावेष्टव्यौ । तदेवं यत् - यस्मादेवमेव व्यवहार भावोपपत्तिर्नान्यथा तेन कारणेन ये दैवादिखरूपाभिधानविषये विकल्पाः क्रियन्ते यथा - " दैवमात्मकृतं विद्यात् कर्म्म यत् पौर्वदेहिकम्। स्मृतः पुरुषकारस्तु, क्रियते यदिहापरम् ॥ १||" इत्यादयस्ते सर्वेऽपि जातिविकल्पा - विकल्पाभासा वस्तुतत्त्ववहिर्भूता भवन्ति ज्ञातव्याः, तथाहि - नात्मव्यापारमन्तरेण कर्म स्वफलसाधनसमर्थ, "न च व्यापारशून्यस्य फलं यत्कर्मणोऽपि ही " ति वचनात्, तत आत्मव्यापारलक्षण एव पुरुषकारो युज्यते, नत्विदानीं क्रियमाणकर्मलक्षण इत्यादि सुधिया वाच्यम् । तदुक्तम् - " नेदमात्मक्रियाभावे, यतः स्वफलसाधकम् । ततः पूर्वोक्तमेवेह, लक्षणं तात्त्विकं तयोः ॥ १॥" इत्यादि, 'ता' तस्मात् किमिहाधिकेन प्रसङ्गेन ?, विपक्षे दृष्टेष्टवाधाप्रदर्शनमात्रेणैव यथावस्थितदैवादिखरूपाधिगते स्तद्विषयपरोक्त विकल्पानां जातिविकल्पावगमात् ॥ ७८७ ॥ तस्मात् — पगतं वोच्छामि अतो गंठिब्भेदम्मि दंसणं नियमा । सो दुल्लभो परिस्समचित्तविधायाइविग्धेहिं ॥ ७८८ ॥ For Private & Personal Use Only संग्रहणिः. ॥२८२ ॥ w.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy