________________
जं पुण अभिसंधीओ होइ तयं पुरिसगारसझंति ।
तप्पाधन्नत्तणतो दिवे उवसज्जणं तत्थ ॥ ७८६ ॥ यत् पुनरभिसंधितो भवति कार्य तकत् लोके पुरुषकारसाध्यमित्युच्यते । न च तदपि केवलपुरुषकारमात्रसाध्यं, यत आह-'तप्पाहन्नत्तणओत्ति' तस्य-पुरुषकारस्य प्रधानत्वतः-प्राधान्येन व्याप्रियमाणत्वात् एवमुच्यते, यावता पुनस्तत्र देवमपि उपसर्जनभूतं व्याप्रियमाणमस्त्येव । “न भवस्थस्य यत्कर्म, विना व्यापारसंभव" इति वचनप्रामाण्यात् । तदेवं लोके देवपुरुषकारावन्योऽन्याश्रितो सन्तौ तुल्यबलौ दृष्टौ, अन्यथा विवक्षितकार्यानुपपत्तेः, न
चेयमन्योऽन्याश्रयेण तयोस्तुल्यबलता यथोदितदेवपुरुषकारखरूपमन्तरेणोपपद्यते, ततस्तदनभ्युपगमे रटबाधा है प्राप्नोति ॥ ७८६ ॥ इष्टबाधामुपदर्शयन्नाह
एवं जुज्जइ पगतं दीसइ सम्मादियं च जं तेण ।
सेसा जातिविगप्पा हवंति ता किं पसंगेण ? ॥ ७८७॥ एवं-प्राग्दर्शितलौकिकव्यवहारन्यायेन प्रकृतं-प्रन्थिदेशसंप्राप्तिनिबन्धनपरिणामविशेषोत्पत्त्यादि युज्यते नान्यथा, न चैतत् प्रकृतं कल्पनामात्रं, यत्-यस्मात् दृश्यते च सम्यक्त्वादिकं, चो भिन्नक्रमे, न चैतत् दृश्यमानं सम्यक्त्वा
Jain Education
For Private Personal Use Only
Mainelibrary.org